Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 41
________________ किरिअमाराहेइ । पसमसुहमणुहवइ, अडिए संजमतवकिरिआए, अव्वहिए परीसहोवसग्गेहि, वाहिअसुकिरिआ नाएणं॥ तथा आश्वासप्रकाशद्वीपं दीपं वा सम्यग्विजानातीति वर्त्तते। किविशिष्टम् ? इत्याह-स्पन्दनस्थिरादिभेदम् । इह भवाब्धावाश्वासद्वीपो, मोहान्धकारे दुःखगहने प्रकाशदीपश्च। तत्राद्यः स्पन्दनवानस्पन्दनवांश्च, प्लावनवानप्लावनवांश्चेत्यर्थः । इतरोऽपि स्थिरोऽ स्थिरश्च । अप्रतिपाती, प्रतिपाती चेत्यर्थः । अयं च यथासंख्यं मानुष्ये क्षायोपशमिकक्षायिकचारित्ररूपः, क्षायोपशमिकक्षायिकज्ञानरूपश्च । उभयत्रायोऽनाक्षेपेणेष्टसिद्धये, सप्रत्यपायत्वात् । चरमस्तु सिद्धये, निष्प्रत्यपायत्वात् । सम्यगेतद्विजानाति, न केवलं विजानाति । अस्पन्दनवत् स्थिरार्थमुद्यमं करोति सूत्रनीत्या । कथम् ? इत्याह-यथाशक्ति शक्त्यनुरूपं, असम्भ्रान्तो भ्रान्ति- | रहितः, अनुत्सुक औत्सुक्यरहितः, फलं प्रति । असंसक्तयोगाराधको भवति । निःसपत्नश्रामण्यव्यापारकर्ता, सूत्रानुसारित्वात् । सूत्रश्च-"जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजंतो । अण्णोण्णमवाहतो असवत्तो होइ कायव्वो" ॥१॥ एक्मुत्तरोत्तर- | योगसिद्ध्या, धर्मव्यापारसिद्धयेत्यर्थः । किम् ? इत्याह-मुच्यते पापकर्मणा तत्तद्गणप्रतिबन्धकेनेति । एवं विशुद्ध्यमानः सन्, आभवं आजन्मासंसारं वा, भावक्रियां निर्वाणसाधिकामाराधयति निष्पादयत्यौचित्यारम्भनिर्वहणरूपाम् । तथा प्रशमसुखमनुभवति । ताचिकं कथम् ? इत्याह अपीडितः संयमतपःक्रियया आश्रवनिरोधानशनादिरूपया । तथा अव्यथितः सन्, परीषहोपसगैः क्षुदिव्यादिभिः । कथमेतदेवं ? इति निदर्शनमाह-व्याधितस्य सुक्रियाज्ञातेन, रोगितस्य शोभनक्रियोदाहरणेन । एतदेवाह

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64