Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
तथ्येन । ततः किं ? इत्याह-ततोऽवगमात्सम्यग्नियुङक्ते तत्सूत्र; एतद्धीराणां शासन; यदुतैवमधीतं सम्यग्नियुक्तमिति । अन्यथाऽ विध्यध्ययनेनियोगः,नियोगादन्योऽनियोगः, विपर्ययादनियोग इत्यर्थः । अत एवाह–अविधिगृहीतमन्त्रज्ञातेन तत्रापि ग्रहादिभावाद्विपर्ययादयोग एव । अनाराधनायामेकान्तेन प्रवृत्तस्य, न किञ्चिदिष्टमनिष्ट वा फलम् । मोक्षोन्मादादि, सदनुष्ठान हि मोक्षफलमेव । यथोक्तम्-“श्रामण्यस्य फलं मोक्षः, प्रधानमितरत् पुनः । तत्वतोऽफलमेवेह, ज्ञेयं कृषिपलालवत् "॥१॥ भङ्गस्याप्युन्मादायेव । यथोक्तम्-" उम्मादं च लमेजा, रोगातई व पाउणो दीहं । केवलिपण्णताओ धम्माओवावि भंसेज्जा"॥१॥न पुनरसम्यक्त्वमेव, कथमत्रानाराधनायां न किञ्चित् ? इत्याह तदनारम्भतो ध्रुवं, तत्त्वतस्तस्यानारम्भात् । न चान्यस्मिन्नेवोद्भवत्यतिप्रसङ्गात् । इहैव लिङ्गमाह-अत्रानाराधनायां मार्गदेशनायां ताचिकायां दुःखं श्रृण्वतो भवति । उक्तश्च शुद्धदेशना हि 'क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः । तथा अवधीरणा मनाग्लघुतरकर्मणो न दुःखम् । तथा अप्रतिपत्तिस्ततोऽपि लघुतरकर्मणो नावधीरणा । ततः किम् ! इत्याह नैवमनाराधनयाऽधीतम् अधीतं सूत्र' तत्त्वतः । कुतः ? इत्याह-अवगमविरहेण सम्यगवबोधाभावेन । नैषा मार्गगामिन एकान्तमनाराधना भवति । सम्यक्त्वादिभावे सर्वथा सत्क्रियायोगात् । अत एवाह-विराधना प्रक्रमादध्ययनस्य अनर्थमुखा उन्मादादिभावेन । अयं च गुरुतरदोषापेक्षयायहेतुः। पारम्पर्येण मोक्षाङ्गमेवेत्यर्थः । कुत? इत्याह- तस्यारम्भाद् ध्रुवं, मोक्षगमनस्यैवारम्भाव । कण्टकज्वरमोहोपेतमार्गगन्तृवत् । उक्त-"मुनेर्मार्गप्रवृत्तिर्या, सा सदोषाऽपि सैव हि । कण्टकज्वरसमोहयुक्तस्येव सदध्वनि "॥१॥ एतद्भावे लिङ्गमाह-अत्र विराधनायां सत्यां मार्गदेशनायां पारमार्थिकायामनभिनिवेशः श्रृण्वतो
पर

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64