Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 18
________________ श्रीपंचसूत्रस्य आधसत्रे शुभकर्मानुबन्धफलनिदर्शनम् ॥ 38888888888888888888* सिआ,सुहावाणिज्जे सिआ, अपुणभावे सिआ॥ एवमेतत्सूत्रं सम्यक्पठतः संवेगसारं, तथा 'शृण्वतः ' आकर्णयतः अन्यसमीपात्, तथाऽनुप्रेक्षमाणस्य अर्थानुस्मरणद्वारेण । किं ? इत्याह-श्लथीभवन्ति, मन्दविपाकतया । तथा परिहीयन्ते, पुद्गलापसरणेन । तथा क्षीयन्ते निर्मूलत एवाशयविशेषाभ्यासद्वारेण । के ? इत्याह-अशुभकर्मानुबन्धा भावरूपाः, कर्मविशेषरूपा वा । ततः किं ? इत्याह-निरनुबन्ध वाऽशुभकर्म यच्छेषमास्ते । भग्नसामर्थ्य विपाकप्रवाहमङ्गीकृत्य शुभपरिणामेनानन्तरोदितसूत्रप्रभवेन । किमिव ? इत्याह-कटकबद्धमिव विष मन्त्रसामर्थ्यनाल्पफलं स्यात्, अल्पविपाकमित्यर्थः । तथा सुखापनेयं स्यात, संपूर्णस्वरूपेणैव । तथा अपुनर्भावं स्यात्कर्म, पुनस्तथाऽबन्धकत्वेन। एवमपायपरिहारः फलत्वेनोक्तः । इदानीं सदुपायसिद्धिलक्षणमेतदभिधातुमाह तहा आसगलिजंति परिपोसिजंति निम्मविजंति सुहकम्माणुबंधा । साणुबंधं च सुहकम्मं पगिढ़ पगिठ्ठभावजिअं नियमफलयं । सुप्पउत्ते विअ महागए सुहफले सिआ, सुहपवत्तगे सिआ, परमसुहसाहगे सिआ। अपडिबंधमअं असुहभावनिराहणं सुहभावबीअंति, सुप्पणिहाणं सम्मं पढिअव्वं, सम्म सोअव्वं अणुप्पेहिअव्वंति ॥ तथा आसकलीक्रियन्ते, आक्षिप्यन्त इत्यर्थः । तथा परिपोष्यन्ते, भावोपचयेन । तथा निर्माप्यन्ते परिसमाप्ति नीयन्ते । के ? इत्याह--कुशलकर्मानुबन्धा इति भावः । ततः किम् ? इत्याह--सानुबन्धं च शुभकर्म, आत्यन्तिकानुबन्धापेक्षम् । किविशिष्टं ? 38888888888888888KSXE.* ॥ ७॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64