Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
किम् ? इत्याह--'प्रकृष्टं' प्रधान, 'प्रकृष्टभावार्जितं' शुभभावार्जितमित्यर्थः । नियमफलदं, प्रकृष्टस्वेनैव । तदेवंभूतं किम् ? इत्याहसुप्रयुक्त इव महागदः एकान्तकल्याणः शुभफलं स्यादनन्तरोदितं कर्म । तथा शुभप्रवर्तकं स्यादनुबन्धेन । एवं परमसुखसाधकं स्यात् पारम्पर्येण, निर्वाणावहमित्यर्थः । यत एवं, अतोऽस्मात्कारणात् ' अप्रतिबन्धमेतत् । प्रतिबन्धरहितं, अनिदानमित्यर्थः । 'अशुभभावनिरोधेन । अशुभानुबन्धनिरोधेनेत्यर्थः । शुभभावनाबीजमितिकृत्वैतत्सूत्रं 'सुप्रणिधानं शोभनेन प्रणिधानेन सम्यक् प्रशान्तात्मना पठितव्यं ' अध्येतव्यम् । श्रोतव्यमन्वाख्यानविधिना । ' अनुप्रेक्षितव्यं परिभावनीयमिति । न च, "होउ मे एसा अणुमोअणा सम्म विहिपुब्विआ" इत्यादिना निदानपदमेतदिति मन्तव्यम्। क्लिष्टकर्मबन्धहेतोर्भवानुबन्धिनः संवेगशून्यस्य महर्द्धिभोगगृद्धावस्यवसानस्य निदानत्वात् । अस्य च तल्लक्षणायोगात् । अनीदृशस्य चानिदानत्वात् । आरोग्यप्रार्थनादेरपि निदानत्वप्रसङ्गात् । तथा चागमविरोधः- " आरोग्गबोहिलाभं समाहिवरमुत्तमं देंतु " इत्यादिवचनश्रवणादित्यलं प्रसङ्गेन । सूत्रपरिसमाप्ताववसानमङ्गलमाह
नमो नमिअनमिआणं परमगुरुवीअरागाणं । नमो सेसनमुक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा ॥
इति पावपडिग्याय-गुणबीजाहाणसुत्तं सम्मत्तं ॥१॥ नमो नतनतेभ्यः, देवर्षिवन्दितेभ्य इत्यर्थः । केभ्यः ? इत्याह-परमगुरुवीतरागेभ्य इति यावत् । नमः शेषनमस्काराहेभ्य

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64