Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
जीवसंश्लेशविशुद्धया । आनुगामुकत्वं भवान्तरवासनानुगमेन । परोपकारित्व तथापीडादिनिवृत्या । परमार्थहेतुत्वं परम्परया मोक्षसाधनत्वेन । तथा दुरनुचरत्वं सदैवानभ्यासात् । भङ्गे दारुणत्वं भगवदाज्ञाखण्डनतः । महामोहजनकत्वं धर्मदूषकत्वेन । भूयो दुर्लभत्वं विपक्षानुबन्धपुष्टयेति भावः, इति । एवमुक्तेन प्रकारेण यथाशक्ति शक्त्यनुरूपं, न तद्धान्याधिक्याभ्याम् । उचितविधानमेव शास्त्रोक्तेन विधिना । अत्यन्तभावसारं महता प्रणिधानबलेन । प्रतिपद्यत धर्मगुणान्न रामसिकया प्रवृत्या, अस्या विषाकदारुणत्वात् । किंभूतास्तान ? इत्याह-तद्यथा-स्थूलप्राणातिपातविरमण, स्थूलमृपावादविरमण, स्थूलादत्तादानविरमणं, स्थूलमैथुनविरमणं, स्थूलपरिग्रहविरमणमित्यादि । 'आदि' शब्दादिवताद्युत्तरगुणपरिग्रहः । आदावुपन्यासश्चैषाम् 'भावत इत्थमेव प्राप्तेरिति ।' उक्तञ्च-" सम्मत्तमि उ लद्धे पलियपुहत्तेण सावओ होजा। चरणोवसमखयाण सागरसंखं होत्ति ॥ एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु । अण्णयरसेढिवजं, एगभवेणं च सव्वाई" इत्यादि । __पडिवजिऊण पालणे जइज्जा, सयाणागाहगे सिआ, सयाणाभावगे सिआ, सयाणापरतते सिआ, "आणा" हि मोहविसपरममंतो, जलं रोसाइजलणस्स, कम्मवाहितिगिच्छासत्यं, कप्पपायवो सिवफलस्स॥
प्रतिपद्य पालने यतेत, अधिकृतगुणानाम् । कथम् ? इत्याह-सदाज्ञाग्राहकः स्थात, अध्ययनश्रवणाभ्याम् । 'आज्ञा' आगम उच्यते । सदाज्ञाभावकः स्यात्, अनुप्रेक्षाद्वारेण । सदाज्ञापरतन्त्रः स्यादनुष्ठानं प्रति । किमेवं ? इत्याह-आज्ञा हि. मोहविषपरममन्त्रः, तदपनयनेन । जलं द्वेषादिज्वलनस्य, तद्विध्यापनेन । कर्मव्याधिचिकित्साशास्त्रं, तत्क्षयकारणत्वेन । कल्पपादपः शिवफलस्य, तदवन्ध्यसाधकत्वेन ॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64