Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 36
________________ श्रीपंचसूत्रस्थ चतुर्थस्त्रे विमवोचितं कृपणादीन, दुःखितसत्त्वानित्यर्थः । सुप्रयुक्तावश्यकः, समुचितेन नेपथ्यादिना सुविशुद्धनिमित्तः, प्रतियोग सममिवासिता गुरुणा गुरुमन्त्रेण, विशुद्धयमानो महता प्रमोदेन लोकोत्तरेण सम्यग्भाववन्दनादिशुद्धथा प्रव्रजेत् । किमुक्तं भवति ? लोकधर्मेभ्यः सबलेभ्यः लोकोत्तरधर्मगमनेन, प्रकर्षेण व्रजेदित्यर्थः । एषा जिनानामाज्ञा, यदुवं प्रबजितव्यम् । इयं च महाकल्याणेति कृत्वा, न विराधितव्या बुधेन, नान्यथा कर्तव्येत्यर्थः । कस्माद् ! इत्याह-महानर्थभयात् । नाज्ञाविराधनतोऽन्योऽनर्थः । अर्थवत्तदाराधनेति । अत एवाह-सिद्धिकाङ्क्षिणा मुक्त्यर्थिनेति । न खल्वाज्ञाराधनातोऽन्यः सिद्धिपथ इति भावनीयम् । प्रव्रज्याग्रहणविधिसूत्र समाप्तम् । तत्त्वतः प्रव्रज्याग्रहणविध्यर्थसूचकं सूत्रं समाप्तम् ॥ ॥ पश्चसूत्रकव्याख्यायां तृतीयसूत्रव्याख्या समाप्ता ॥ प्रव्रज्यापरिपालनविधिः॥ तुर्य प्रव्रज्यापरिपालनासूत्रम् ॥ साम्मतं चतुर्थसूत्रव्याख्याऽऽरभ्यते । अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे साधुधर्मे परिभाविते यत्कर्त्तव्यं तदुक्तम्, तच्च विधिना प्रव्रज्या ग्राह्येत्येतत् । अस्य चर्यामभिधातुमाह स एवमभिपव्वइए समाणे, सुविहिभावओ किरिआफलेण जुजइ । विसुद्धचरणे महासत्ते न ॥१६॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64