Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 34
________________ श्रीपंचसूत्रस्य ॥१५॥ SXXXXXXX** सिद्धीए, 'एस चाए अचाए' तत्तभावणाओ । 'अचाए चेव चाए' मिच्छाभावणाओ। तत्तफलमित्थ पहाणं | तृतीयसूत्रे परमत्थओ । धीरा एअदंसिणो आसन्नभव्वा ।। दीक्षार्थ. सः पुरुषः तौ मातापितरौ औषधसंपादनेन जीवयेत् । संभवत्येतदत एवाह-संभवात्पुरुषोचितमेतद्यदुतेत्थं त्याग इति । मातापितएष दृष्टान्तोऽयमर्थोपनय इत्याह-एवं शुक्लपाक्षिको महापुरुषः परीत्तसंसार इत्यर्थः । यथोक्तम्-" जस्स अवड्डो पोग्गलपरियट्टो त्यागोऽसेसओअसंसारो । सो सुक्कपक्खिओ खलु, अहिगे पुण कण्हपख्खीओ"॥१॥ किमयं ? इत्याह-संसारकान्तारपतितः सन् मातापितृसङ्गत उपलक्षणमेतत्, भार्यादीनां धर्मप्रतिबद्धो विहरेत् । तयोर्मातापित्रोस्तत्र संसारकान्तारे नियमविनाशकः, अप्राप्तबीजादि- त्याग एव । पुरुषमात्रासाध्यः, संभवत्सम्यक्त्वाद्यौषधः, मरणादिविपाकः, कर्मातङ्कः स्यात् । क्लिष्टं कर्मेत्यर्थः । तत्रासौ शुक्लपाक्षिकः पुरुषः, धर्मप्रतिबन्धाद्धेतोः, एवं समालोच्य-विनश्यत एतौ मातापितरौ, अवश्यं-सम्यक्त्वाद्यौषधविरहेण सम्यक्त्वाद्यौपधाभावेन । तत्संपादने सम्यक्त्वाद्यौषधसंपादने विभाषा, कदाचिदेतत्संपादयितुं शक्यते, कदाचिन्न, इत्येवंरूपा । कालसहौ चैतौ व्यवहारतः । तथा जीवनसंभवान्निश्चयतस्तु न । यथोक्तम्-आयुषि बहूपसर्गे, वाताहतसलिलबुद्बुदानित्यतरे । उच्छ्वस्य निश्वसिति यः, सुप्तो वा यद्विबुध्यते तच्चित्रम् " ॥१॥ तथा तेन सौहित्यापादनप्रकारेण संस्थाप्य संस्थाप्य, इहलोकचिन्तया तयोर्मातापित्रोः सम्यक्त्वाद्यौषधनिमित्तं, विशिष्टगुर्वादिभावेन धर्मकथादिभावात् । स्ववृत्तिनिमित्तं च, कृत्यकरणेन हेतुना त्यजन्संयमप्रतिपत्त्या, तौ मातापितरौ, साधुधर्मशीलः सिद्धौ सिद्धिविषये। किमित्येतदेवं ? इत्याह-'एष त्यागोऽत्याग'स्तत्त्वभावनातस्तद्धितप्रवृत्तेः । 'अत्याग एव त्यागो' 14 मिथ्याभावनातस्तदहितप्रवृत्तेः। तस्वफलं सानुबन्धमत्र प्रधानं बुधानां परमार्थतः, परमार्थेन । धीरा एतद्दर्शिन आसन्नभव्या, नान्ये ॥ ॥१५॥ X*38*83*

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64