Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंचसूत्रस्य ॥१४॥
मातापित्रादित, अहाणामम्माराहणं ख
तृतीयस्त्रे दीक्षार्थ मातापितपरित्यागज्ञातम् ॥
अण्णहा, अणुवहे चेव उवहिजुत्ते सिआ। 'धम्माराहणं खु हिअंसव्वसत्ताणं। तहा तहेअंसंपाडिज्जा । सव्वहा अपडिवजमाणे चइज्जा ते, अट्ठाणगिलाणोसहत्थचागनाएणं ॥ ___ अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया, विदध्यात् । यथाशक्ति, शक्त्यनुसारेण तदुपकरणमर्थजातादीत्यर्थः। कि ? कारणे कार्योपचारात् । किंभूतं ? इत्याह-आयोपायशुद्धं स्वमत्या । ततोऽन्यसंभूतिरायः, कलान्तरादिरुपायः । किमेतदेवं कुर्यात् ? इत्याह-कृतज्ञतैवैषा वर्तते । करुणा च किविशिष्टेयं ? इत्याह-धर्मप्रधानजननी जने शासनोन्नतिनिमित्तमित्यर्थः। ततोऽनुज्ञातः सन् मातापित्रादिमिरिति प्रक्रमः । प्रतिपद्येत धर्म चारित्रलक्षणम् । अन्यथैवमपि तदनुज्ञाऽभावे । अनुपध एव, भावतः । उपधियुक्तः स्याद्, व्याजवान स्यादित्यर्थः । उक्तञ्च-निर्माय एव भावेन, मायावांस्तु भवेत्वचित् । पश्येत्स्वपरयोर्यत्र सानुबन्धहितोदयम् ॥ ॥ एवं च धर्माराधनमेव हितं सर्वसत्त्वानामिति । तथा तथैव दुःस्वप्नादिकथनेन संपादयेद्धर्माराधनं, सर्वथाप्रतिपद्यमानान् । अमुनाऽपि प्रकारेण त्यजेत्तान् मातापित्रादीन् । अस्थानग्लानौषधार्थत्यागज्ञातेन, ज्ञातमुदाहरणम् । एतदेवाह
से जहा-नामए केइ पुरिसे, कहंचि कंतारगए अम्मापिइसमेए, तप्पडिबढे वच्चिजा । तेसिं तत्थ निअमघाई पुरिसमित्तासज्झे संभवओसहे महायंके सिआ । तत्य से पुरिसे, तप्पडिबंधाओ एवमालोचिअ 'न भवंति एए निअमओ ओसहमंतरेण, ओसहभावे अ संसओ, कालसहाणि अ एआणि' । तहा संठविअ संठविअ तदोसहनिमित्तं सवित्तिनिमित्तं च, चयमाणे साहू । एस चाए अचाए । अचाए चेव चाए। फलमित्य पहाणं बुहाणं, धीरा एअदंसिणो॥
॥१४॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64