Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 26
________________ श्रीपंच | द्वितीयसूत्रे सूत्रस्य धर्म एव मरणोष धम् ॥ न मम तद्विराधना सांप्रतम् । न मम तदारम्भः, विराधनारम्भः । तथा वृद्धिर्ममैतस्य धर्मस्थानस्य । एतदत्र सारं धर्मस्थानम् । एतदात्मभूतमानुगामुकत्वेन । एतद्धितं सुन्दरपरिणामत्वेन । असारमन्यत्सर्वमर्थजातादीति । विशेषतोऽविधिग्रहणेन विपाकदारुणत्वात् । यथोक्तम्-" पापेनैवार्थरागान्धः, फलमानोति यक्वचित् । बडिशामिपयत्तत्तु, विना नाशं न जीर्यति " इति । एतदेवमेवेत्याह-एवमाह त्रिलोकबन्धुः, समुपचितपुण्यसंभारः परमकारुणिकः तथाभव्यत्वनियोगात् । सम्यक संबुद्धोऽनुत्तरबोधिबीजतः । भगवानहन सच्चविशेष इति । एवं समालोच्य ' तदविरुद्धेषु ' अधिकृतधर्मस्थानाविरुद्धेषु समाचारेषु विचित्रेषु सम्यग् वर्तेत। सूत्रनीत्या भावमङ्गलमेतद्विधिना वर्त्तनं, तनिष्पत्तेरधिकृतसमाचारनिष्पत्तेरिति ॥ तहा जागरिज धम्मजागरिआए, को मम कालो? किमअस्स उचिअं?असारा विसया, निअमगामिणो, विरसावसाणा । भीसणो मच्चू, सव्वाभावकारी, अविनायागमणो, अणिवाराणिज्जो पुणो पुणोऽणुबंधी । धम्मो एअस्स ओसह, एगंतविसुद्धो, महापुरिससेविओ, सव्वहिअकारी निरइआरो परमाणंदहेऊ ॥ तथा जागृयात् भावनिद्राविरहेण । धर्मजागरया तत्वालोचनरूपया । को मम कालः ? वयोऽवस्थारूपः । किमतस्योचितं ? धर्माद्यनुष्ठानम् । ' असारा विषयाः । तुच्छाः शब्दादयो, 'नियमगामिनो वियोगान्ताः, 'विरसावसानाः परिणामदारुणाः । तथा भयानको मृत्युः, महाभयजननः । सर्वाभावकारी तत्साध्यार्थक्रियाऽभावात् । अविज्ञातागमनः, अदृश्यस्वभावत्वान्मृत्योः । अनिवारणीयः, स्वजनादिबलेन । पुनः पुनरनुबन्धी, अनेकयोनिभावेन । धर्म एतस्यौषधं, मृत्योाधिकल्पस्य । किविशिष्टः ?

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64