Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 25
________________ धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे " ॥ तथाऽन्यैरप्युक्तम्-- “ आयादर्द्ध नियुञ्जीत, धर्मे यद्वाऽधिकं सतः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् " || इत्यादि । तथा असन्तापकः परिजनस्य स्यादिति वर्त्तते शुभप्रणिधानेन । गुणकरो यथाशक्ति भवस्थितिकथनशीलत्वेन । अनुकम्पापरः प्रतिफलनिरपेक्षतया । निर्ममो भावेन भवस्थित्यालोचनात् । क एवं गुणः स्यात् ? इत्याह-एवं यस्मात्तत्पालनेऽपि धर्मः, जीवोपकारभावात् । यथाऽन्यपालन इति जीवविशेषेण । किमित्येतदेव ? न, इत्याह- सर्वे जीवाः पृथक पृथ वर्त्तन्ते, स्वलक्षणभेदेन किं तु ममत्वं बन्धकारणं, लोभरूपत्वात् । उक्तञ्च - संसाराम्बुनिधौ सच्चाः कर्मोर्मिपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः " ।। तथा - " अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि । सत्त्वो नैवात्यसौ कश्विद्यो न बन्धुरनेकधा " ।। इत्यादि, सर्वथा ? परिभावना मात्रमेतत्स्वजनो न स्वजन इति ॥ तहा तेसु तेसु समायारेसु सइ समण्णागए सिआ, अमुगेहं अमुगकुले अमुगसिस्से अमुगधम्मट्ठाणट्ठिए । न मे विराणा, न मे तदारंभी, बुड्ढी ममेअस्स, एअमित्य सारं, एअमायभूअं, एअं हिअं, असारमण्णं सव्वं, विसेसओ अविहिगहणेणं । एवमाह तिलोगबंधू परमकारुणिगे सम्मं संबुडे भगवं अरहंतेति । एवं समालोचिअ तदविरुद्धेसु समायारेसु सम्मं वहिजा, भावमंगलमेअं तन्निष्पत्तीए || तथा तेषु तेषु समाचारेषु गृहिसमुचितेष्विति वर्तते, स्मृतिसमत्वागतः स्यात् आभोगयुक्तः । कथं ? इत्याह-अमुकोऽहं देवदत्तादिनामा | अमुक इक्ष्वाक्काद्यपेक्षया । अमुकशिष्यो धर्मतः, तत्तदाचार्यापेक्षया । अमुकधर्मस्थानस्थितः अणुव्रताद्यपेक्षया ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64