Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
जुग्गं च एअं पोअभूअं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं, संवरठ्ठह्अछि, नाणकण्णधारं तवपवणजवणं । 'खणे दुल्लहे' सव्वकज्जोवमाईए सिद्धिसाहगधम्मसाहगत्तेण । उवादेआ य एसा जीवाणं; जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिट्ठसंपओगो, न खुडा, न पिवासा, न अण्णो कोइ दोसो, सव्वा अपरतंतं जीवावत्थाणं असुभरागाइरहिअं संतं ' सिवं ' अव्वाबाहंति ॥
परिभाविते साधुधर्मे अनन्तरसूत्रोदितेन विधिना, यथोदितगुणः संसारविरक्तः संविप्रः अममः अपरोपतापी विशुद्धः विशुद्धयमानभावः सन्, यतेत सम्यग्विधिनाऽमुं धर्म प्रतिपत्तुम् । कथं ? इत्याह- अपरोपतापमिति क्रियाविशेषणम् । किमेतदाश्रीयते ! इत्याह-- परोपतापो हि तत्प्रतिपत्तिविघ्नः परोपतापो यस्माद्धर्मप्रतिपत्त्यन्तरायः । एतदेवाह — अनुपाय एवैष धर्मप्रतिपत्तौ परोपत्तापः । कथं १ इत्याह-न खल्वकुशलारम्भतो हितम् । अकुशलारम्भश्च धर्मप्रतिपत्तावपि परोपतापः । न चान्यस्तत्र, प्रायोऽयं संभवतीति । संभविपरिहारार्थमाह- अप्रतिबुद्धौ कथञ्चित्कर्मवैचित्र्यतः, प्रतिबोधयेन्मातापितरौ । न तु प्रायो महासवस्यैतावप्रतिबुद्धौ भवत इति । कथञ्चित् १ इत्याह-उभयलोकसफलं जीवितं प्रशस्यत इति शेषः । तथा समुदायकृतानि कर्माणि, प्रक्रमाच्छुभानि समुदायफलानीति । अनेन भूयोऽपि योगाक्षेपः । तथा चाह एवं सुदीर्घो वियोगः भवपरम्परया सर्वेषामस्माकमिति प्रक्रमः । अन्यथैवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः । यथोक्तम् - " वासवृक्षं समागम्य, विगच्छन्ति यथाऽण्डजाः नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ " इत्यादि । एतदेव स्पष्टयन्नाह - उद्दामो मृत्युः अनिवारितप्रसरः प्रत्यासन्नश्चाल्पायुष्वेन । तथा
3

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64