Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 20
________________ श्रीपंचसूत्रस्य ॥८॥ आचार्यादिभ्यो गुणाधिकेभ्य इति भावः । जयतु सर्वज्ञशासनं, कुतीर्थापोहेन । परमसंबोधिना वरबोधिलाभरूपेण सुखिनो भवन्तु, मिथ्यात्वदोपनिवृत्त्या 'जीवाः प्राणिन इति । अस्य वारत्रय पाठः, पापप्रतिघातेन अकुशलानुबन्धाश्रवव्यवच्छेदेन गुणबीजाधान, भावतः प्राणातिपातविरमणमिति तन्यासः। तथाऽनुवन्धतो विचित्रविपाकाकर्माधानमित्यर्थः । एतत्सूचकं सूत्रं पापप्रतिघात-धर्मगुणबीजाधानसूत्रं समाप्तम् । इति पञ्चसूत्रकव्याख्यायां प्रथमसूत्रव्याख्या समाप्ता ॥१॥ द्वितीयसूत्रे धर्मश्रद्धानन्तरमणुव्रतप्रतिपत्त्युपदेशः॥ द्वितीयं साधुधर्मपरिभावनासूत्रम् ॥ अधुना द्वितीयसूत्रव्याख्या प्रस्तूयते-अस्य चायमभिसंबन्धः-इह धर्मगुणबीजमाहितं सत्तत्तद्वैचित्र्यात्तत्तत्कालादिनिमित्तभेदेन विपच्यते, एतदाभिमुख्येन । तत एव धर्मगुणप्रतिपत्तिश्रद्धोपजायते, तस्यां समुपजातायां यत्कर्त्तव्यं तदभिधातुमाह जायाए धम्मगुणपडिवत्तिसद्धाए, भाविज्जा एएसिं सरूवं पयइसुंदरत्तं अणुगामित्तं परोवयारित्तं परमत्यहेउत्तं । तहा दुरणुचरत्तं, भंगे दारुणतं, महामोहजणगत्तं, भूओ दुल्लहत्तंति । एवं जहासत्तए उचिअविहाणेणं अच्चंतभावसारं पडिवजिजा। तंजहा-थूलग-पाणाइवायविरमणं १, थूलग-मुसावायविरमणं २. थूलग-अदत्तादाणविरमणं ३, थलग-मेहुणविरमणं ४, थूलग-परिग्गहविरमण ५ मिच्चाइ॥ जातायां धर्मगुणप्रतिपत्तिश्रद्धायां भावतस्तथाविधकर्मक्षयोपशमेन भावयेत्, एतेषां स्वरूपं धर्मगुणानाम् । प्रकृतिसुन्दरत्वं ॥८॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64