Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 22
________________ X श्रीपंच द्वितीयस्त्रे -पत्रस्य धर्मविरुद्ध त्यागोपदेशः॥ XXBABEO: वजिजा अधम्ममित्तजोगं, चिंतिजाभिणवपाविए गुणे, अणाइभवसंगए अ अगुणे, उदग्गसहकारितं अधम्ममित्ताणं, उभयलोगगरहिअत्तं असुहजोगपरंपरं च ॥ ___तथा वर्जयेत् ' अधर्ममित्रयोग' अकल्याणमित्रसम्बन्धम् । चिन्तयेत् अभिनवप्राप्तान 'गुणान् स्थूलप्राणातिपातविरमणादीन । अनादिभवसङ्गतांश्वाऽगुणान्, सदैवाविरतत्वेन । उदग्रसहकारित्वं, तत्पापानुमत्यादिना । अशुभयोगपरंपरं च, अकुशलानुबन्धतः।। परिहरिजा सम्मं लोगविरुद्धे, करुणापरे जणाणं, न खिसाविज धम्म, संकिलेसो खुएसा, परमबोहिबीअमबोहिफलमप्पणोत्ति । एवमालोएजा-न खलु इत्तो परो अणत्थो, अंधत्तम संसाराडवीए, जणगमणिहावायाणं, अइदारुणं सरूवेणं, असुहाणुबंधमच्चत्थं ॥ तथा परिहरेतु सम्यग् लोकविरुद्धानि तदशुभाध्यवसायादिनिबन्धनानि । अनुकम्पापरो जनानां, माभूत्तेषामधर्मः । न खिसयेद्धर्म, न गर्हयेज्जनैरित्यर्थः। संक्लेश एवैषा खिसाऽशुभभावत्वेन । परं अबोधिबीजं, तत्प्रद्वेषेण | अबोधिफलमात्मन इति । जनानां तन्निमित्तभावेन । तथा एवमालोचयेत्सूत्रानुसारेण । न खल्वतः परोऽनर्थोऽबोधिफलात् । तत्कारणभावाद्वा लोकविरुद्धत्वादिति । अन्धत्वमेतत्संसाराटव्यां हितदर्शनाभावेन । जनकमनिष्ट (एटा)पातानां, नरकाद्युपपातकारणतया । अतिदारुणं स्वरूपेण, संक्लेशप्रधानत्वात् । अशुभानुबन्धमत्यर्थ परम्परोपघातभावेनेति । अत एवोक्तम्-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरूद्धं च संत्याज्यम् ॥ " इत्यादि । ॥९ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64