Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
परमकल्लाणा, परमकल्लाणहेऊ सत्ताणं, 'मूढे अम्हि पावे,' अणाइमोहवासिए अणभिन्ने भावओ, हिआहिआणं अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ, आराहगे सिआ, उचिअपडिवत्तीए सव्वसत्ताणं सहिअंति । इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं ||
भवतु ममैषाऽनुमोदना, अनन्तरोक्ता । सम्यग्विधिपूर्विका, सूत्रानुसारेण । सम्यकुशुद्धाशया, कर्मविगमेन । सम्यक्प्रतिपत्तिरूपा, क्रियारूपेण | सम्यग्निरतिचारा, सन्निर्वहणेन । कुतो भवतु १ इत्याह- परमगुणयुक्ताईदादिसामर्थ्यतः । आदिशब्दात्सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह - अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽईदादयः, वीतरागाः, सर्वज्ञाः, प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं तद्विशेषापेक्षं स्वाह-परकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः, सच्चानां तैस्तैरुपायैः सर्व एवैते ' मृढास्मि पाप' एतेषां विशिष्टानां प्रतिपत्तिं प्रति । अनादिमोहवासितः संसारानादित्वेन । अनभिज्ञो भावतः परमार्थतः । हिताहितयोरभिज्ञः स्यामहमेतत्सामर्थ्येन । तथाऽहितनिवृत्तः स्यां, तथा हितप्रवृत्तः स्याम् । एवमाराधकः स्यामुचितप्रतिपत्त्या, सर्वसत्वानां संबन्धिन्या । कि ? इत्याह – स्वहितमिति । इच्छामि सुकृतं ३, एवं वारत्रयं पाठः । उत्तममेतत्सुकृतासेवनं, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम् । सूत्रपाठे फलमाह
सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स, सिढिलोभवंति परिहार्यंति विज्जति असुहकम्माणुबंधा । निरणुबंधे वाऽसुहकम्मे भग्ग सामत्थे सुहपरिणामेणं, कडगबजे विअ विसे, अप्पफले
एवमे

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64