Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 16
________________ श्रीपंचसूत्रस्य आद्यसूत्रे . पंचपरमेष्ठिक्रियानुमोदनम् ॥ निरतिचारं पारगः स्यामेतदाज्ञायाः । एवं सानुषङ्गा दुष्कृतगर्हामभिधाय, सुकृतासेवनमाह संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसि अरहताणं अणुट्ठाणं । सव्वेसि सिद्धाणं सिद्धभावं । सव्वेसिं आयरिआणं आयारं । सव्वेसिं उवज्झायाणं सुत्तप्पयाणं । सव्वेसिं साहूणं साहुकिरिअं। सव्वेसिं सावगाणं मुक्खसाहणजोगे। सव्वसिं देवाणं, सव्वेसिंजीवाणं, होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे। संविग्नः सन् यथाशक्ति, किम् ? इत्याह-सेवे सुकृतम् । एतदेवाह-अनुमोदेऽहमिति प्रक्रमः । सर्वेषामर्हतां ' अनुष्ठानं ' धर्मकथादि । एवं सर्वेषां सिद्धानां - सिद्धभावं ' अव्याबाधादिरूपम् । एवं सर्वेषामाचार्याणां । आचारं । ज्ञानाचारादिलक्षणम् । एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवत । एवं सर्वेषां साधूनां ' साधुक्रियां' सत्स्वाध्यायादिरूपाम् । एवं सर्वेषां श्रावकाणां 'मोक्षसाधनयोगान् । वैयावृत्त्यादीन् । एवं सर्वेषां 'देवानां ' इन्द्रादीनाम्, सर्वेषां जीवानां, सामान्येनैव भवितुकामानामासन्नभव्यानां, 'कल्याणाशयानां' शुद्धाशयानां एतेषाम् । किं ? इत्याह-मार्गसाधनयोगान् । सामान्येन कुशलव्यापाराननुमोदे, इति क्रियानुवृत्तिः । भवन्ति चैतेषामपि मागसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमात् । अनभिग्रहे सति प्रणिधिशुद्धिमाहहोउ मे एसा अणुमोअणा । सम्मं विहिपुव्विआ, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्मनिरइआरा। परमगुणजुत्तअरहंताइसामत्थओ, अचिंतसत्तिजुत्ता हि ते भगवंतो, वीअरागा सव्वण्णू

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64