Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 10
________________ आवले अच्छक भारना॥ श्रीपंच सति विवेके नियतभाविनोऽखण्डभावसिद्धेः परकृतानुमोदनरूपस्यासेवन, महदेतत्कुशलाशयनिबन्धनमिति परिभाश्नीयम् । 'कृतकारि तानुमतिभेदभिन्ने हि पुण्यपापे । एभिस्तत्तथास्वाभाव्यात्साध्यव्याधिवत्तथाभव्यत्वं परिपाच्यते, इति । यत एवमतः यस्मादुक्तवदधिसूत्रस्य कृततत्त्वसिद्धिः, ' अतः : अस्मात्कारणात्कर्त्तव्यं 'इदं वक्ष्यमाणं, 'भवितुकामेन ' मोक्षार्थिना भव्यसवेन, कथं कर्त्तव्यम् । 4॥३॥ | इत्याह-सदा सर्वकालं 'सुप्रणिधानं ' शोभनेन प्रणिधानेन, नात्र कालो नियम्यते किं तु सुप्रणिधानमिति । यदा यदा क्रियते, 16 तदा तदा सुप्रणिधानं कर्त्तव्यमित्यर्थः । सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् । उक्तं च-"प्रणिधानकृतं कर्म, मतं तीव्रविपाकवत् । सानुबन्धननियमाच्छुभांशाच्चैतदेव तत् " इत्थं चैतदङ्गीकर्तव्यम् ? इत्याह-कर्त्तव्यमिदं, 'भूयो भूयः' पुनः पुनः INT संक्लेशे' सति तीव्ररागादिसंवेदनरूपेऽरतावुत्पन्नायामिति यावत् । तथा 'त्रिकालं त्रिसन्ध्यं कर्तव्यमिदम् । असंक्लेशे प्रकृत्या | कालगमने सति यत्कर्त्तव्यं तदाह जावजीवं मे भगवंतो परमतिलोगनाहा, अणुत्तरपुन्नसंभारा, खीणराग दोसमोहा, अचिंतचिंतामणी, भवजलहिपोआ, एगंतसरणा, अरहंता सरणं । 'जावजीवं मे भगवंतो अरहता सरणं' इति योगः। 'यावज्जीवं' यावज्जीवितं 'मेमम 'भगवन्तः' समग्रैश्वर्यादियुक्ताः अहन्तः । शरण' इति योगः । अत्र 'यावज्जीव ' इति कालपरिमाणं, परतो भङ्गभयात् । पुनरवधित्वेन परतोऽप्यधिकृतशरणस्येष्टत्वात् । एत एव विशेष्यन्ते-परमाश्च ते दुर्गतिभयसंरक्षणेन त्रिलोकनाथाश्च, अत्र त्रिलोकवासिनो देवादयः परिगृवन्ते । एत एव विशेष्यन्ते-अनुत्तरः सर्वोत्तमहेतूत्कर्षात्पुण्यसंभारः, तीर्थकरनामकर्मलक्षगो येषां ते, तथा । त एवं विशेष्यन्ते-क्षीणा रागद्वेषमोहा अभि XXXIXXEXCELEASE

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64