Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 9
________________ एअस्स णं वुच्छित्ती सुद्धधम्माओ, सुद्धधम्मसंपत्ती पाव कम्मविगमाओ, पावकम्मविगमो तहाभब्वत्ताइभावओ। 'एतस्य ' भवस्य, ‘णं' इति वाक्यालंकारे, 'व्यवच्छित्तिः । उच्छित्तिः 'शुद्धधर्मात् । ज्ञानदर्शनचारित्ररूपात, औचित्येन सातत्यसत्कारविधिसेवितात् । अयं च श्रावकादेरप्यभिग्रहपालनेन ज्ञेयः । अभिग्रहभावस्य सातत्येन भावादिति शुद्धधर्मसंप्राप्तिः । कुतः ? इत्याह-शुद्धधर्मो यथोदितः, तस्य सम्यक्प्राप्तिः संप्राप्तिः, भावप्राप्तिरित्यर्थः । पापकर्म मिथ्यात्वमोहनीयादि, तस्य विगमो विशिष्टो गमः, अपुनर्बन्धकत्वेन पृथग्भाव इति यावत, तस्मात्पापकर्मविगमात् । अयं पुनः कुतः ? इत्याह-'पापकर्मविगमः। यथोदितः, 'तथाभव्यत्वादिभावात् । भव्यत्वं नाम 'सिद्धिगमनयोग्यत्व 'ननादिपारिणामिको भावः । तथाभव्यत्वमिति विशिष्टमेतत् , कालादिभेदेनात्मनां बीजसिद्धिभावात् । आदिशब्दात्कालनियतिकर्मपुरुषकारपरिग्रहः, साध्यव्याधिकल्पत्वात् । तथाभव्यत्वस्य विपाकसाधनान्याह- । तस्स पुण विवागसाहणाणि, १ चउसरणगमणं, २ तुकडगरिहा, ३ सुकडाणसेवणं, अओ कायब्वमिणं होउकामेणं सया सुप्पणिहाणं भुजो भुलो संकिलेसे तिकालमसंकिलेसे । 'वस्य पुनः । तथाभव्यत्वस्य 'विपाकसाधनानि' अनुभावकारणानि । कानि तानि ? इत्याह-१ चतुर्णामर्हस्सिद्धसाधकेलिप्रज्ञप्तधर्माणां शरणगमन, प्रधानशरणोपगम इत्यर्थः । 'महानयं प्रत्यपायपरिरक्षणोपायः । तथा २ दुष्कृतेपिह परभवगतेषु गर्दा अकर्तव्यबुद्धिसारा परसाक्षिकी। तथानिवेदनाप्रतिपत्तिर्दुष्कृतगरे । 'अप्रतिहतेयं कर्मानुबन्धापनयने,' इति कर्त्तव्या । तथा ३ सुकृतस्य

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64