Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
बङ्गाप्रीत्यज्ञानलक्षणा येषां ते, तथा । त एव विशेष्यन्ते-' अचिन्त्यचिन्तामणयः । चिन्तातिक्रान्तापवर्गविधायकत्वेन । त एवं विशेष्यन्ते-'भवजलधियोताः । तद्वदुत्तारकत्वेन । त एव विशेष्यन्ते-एकान्तशरण्याः ' सर्वाश्रितहितत्वेन । क एवंभृताः ? कि वा एते ? इत्याह-' अर्हन्तः शरणम् । तत्राशोकाद्यष्टमहाप्रातिहार्यलक्षणम्, पूजामर्हन्तीत्यर्हन्तः, ते मम शरणमाश्रय इति ।
तहा पहीणजरामरणा, अवेअकम्मकलंका, पणट्ठवावाहा, केवलनाणदंसणा,
सिद्धिपुर-निवासी, निरुवमसुहसंगया, सव्वहा कयकिच्चा, सिद्धा सरणं । 'तहा पहीणजरामरणा सिद्धा सरणं' इति योगः । तथा न केवलमहन्तः, किं तु सिद्धाः शरणमिति क्रिया। किं विशिष्टास्ते ? इत्याह-प्रक्षीणजरामरणा' प्रक्षीणे सदाऽपुन वित्वेन जरामरणे येषां ते तथा, जन्मादिबीजाभावात् । एत एव विशेष्यन्ते'अपेतकर्मकलङ्काः । अपेतः कर्मकलको येषां ते तथाविधाः, सर्वथा कर्मरहिता इत्यर्थः । एत एव विशेष्यन्ते-'प्रनष्टव्यावाधाः। प्रकर्षण नष्टा क्षीणा व्याबाधा येषां ते तथा, सर्वव्यावाधावर्जिता इति भावः । एत एव विशेष्यन्ते--- केवलज्ञानदर्शनाः केवले संपूर्ण ज्ञानदर्शने येषां ते तथाविधाः, सर्वज्ञाः सर्वदर्शिन इत्यर्थः । एत एव विशेष्यन्ते--'सिद्धिपुरनिवासिनः' सिद्धिपुरे लोकान्ते वस्तुं शील येषां ते तथा, मुक्तिनिवासिन इति गर्भः। एत एव विशेष्यन्ते–'निरुपमसुखसङ्गताः। निरुपमसुखेनाविद्यमानापेक्षेण संगताः, इति समासः । असांयोगिकानन्दयुक्ता इत्यर्थः । एत एव विशेष्यन्ते–'सर्वथा कृतकृत्याः । सर्वथा सर्वप्रकारैः कृतं कृत्यं यैस्ते तथा, निष्ठितार्था इति भावः । क एवंभूताः ? किं वा एते ? इत्याह-'सिद्धाः शरणं । सिद्ध्यन्ति स सिद्धाः, परमतत्वरूपास्ते मम शरणमाश्रय इति ।
SEEISEXXXSESIXXX
क

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64