Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 12
________________ श्रीपंचसूत्रस्य आधसूत्र साधु-धर्म शरणद्वयम् ॥ BIEEEXXXXXXXXXXXXXXXXXXXX तहा पसंतगंभीरासया, सावज्जजोगविरया, पंचविहायारजाणगा, परोवयार निरया, पउमाइनिर्दसणा, झाणज्झयणसंगया, विसुज्झमाणभावा, साहू सरणं । 'तहा पसंतगभीरासया साहू सरणं' इति योगः। त्था न केवलं सिद्धा शरणं, किंतु साधवः शरणमिति क्रिया। किविशिष्टास्ते ? इत्याह-प्रशान्तः शान्तियोगात, गंभीरोऽगायतया, आशयश्चित्तपरिणामो येषां ते प्रशान्तगंभीराशयाः । एत एव विशेष्यन्ते-सहावद्येन सावद्यः, सपापो योगो व्यापारः कृतादिरूपः, तस्माद्विरताः 'सावद्ययोगविरताः । एत एव विशेष्यन्तेपञ्चविधमाचारं ज्ञानाचारादिभेदभिन्नं जानते, इति पञ्चविधाचारज्ञाः ' । एत एव विशेष्यन्ते-परोपकारे एकान्तिकात्यन्तिकरूपे निरताः, 'परोपकारनिरताः । एत एव विशेष्यन्ते-पद्मादीनि पङ्कोत्पत्तिजलस्थितिभावेऽपि तदस्पर्शनेन, कामभोगापेक्षयैवमेव भावः, इति निदर्शनानि येषां ते, 'पद्मादिनिदर्शनाः' । आदिशब्दाच्छरत्सलिलादिग्रहः । एत एव विशेष्यन्ते-ध्यानाध्ययनाभ्यां एकाग्रचित्तानिरोधस्वाध्यायलक्षणाभ्यां संगताः, ' ध्यानाध्ययनसंगताः । एत एवं विशेष्यन्ते-विशुध्यमानो विहितानुष्ठानेन भावो येषां ते 'विशुध्यमानभावाः ।। क एवं भूताः ? किं वा एते ? इत्याह-तत्र सम्यग्दर्शनादिभिः सिद्धि साधयन्तीति साधवः, मुनय इत्यर्थः । ते मम शरणमाश्रय इति । तहा सुरासुरमणुअपूइओ, मोहतिमिरंसुमाली, रागद्दोसविसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू, साहगो सिद्धभावस्स, केवलिपग्णत्तो धम्मो जावजीवं मे भगवं सरणं । सरणमुवगओ अ एएसिं, गरहामि दुक्कडं । XXXXXXXXXXXXXXXXXXXX ॥४॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64