Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 998
________________ न्यायकोशः । 1 ( वाक्य० २ पृ० १६)। साध्यतावच्छेदकनिष्ठ हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वादिरूपो वा (ग० २ हेत्वा० सा० ) । असाधारणस्थले साध्यव्यापकीभूताभावप्रतियोगित्वम् । अनुपसंहारिस्थले तु अत्यन्ताभावाप्रतियोगिसाध्यकत्वादि व्यभिचारः इति । सव्यभिचारत्वं च साधारण असाधारण अनुपसंहारि एतदन्यतमत्वम् ( मु० २ पृ० १५९ ) ( नील० २ पृ० २५ ) ( न्या० बो० २ पृ० १७ ) । व्यभिचार एकत्राव्यवस्था । सह व्यभिचारेण वर्तत इति सव्यभिचारः । निदर्शनम् नित्यः शब्दः अस्पर्शत्वात् । स्पर्शवान् कुम्भः अनित्यो दृष्टः न च तथा स्पर्शवान् शब्दः । तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मों न साध्यसाधनभूतौ दृश्येते । स्पर्शवांचाणुर्नित्यश्चेति । आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इति । अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति अस्पर्शा बुद्धिरनित्या चेति । एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति (गौ० वात्स्या ० १/२/५ ) । सव्यभिचारपदं साधारणमात्रे प्रयुञ्जतीदानींतनाः ( दीधि ० सव्य ० ) । शिष्टं विभागादिकं तु अनैका - न्तिकशब्द व्याख्यानावसरे संपादितम् इति विरम्यते । सव्यभिचारत्वं च हेतुदोषः । तच्च साध्यसंदेहजनको भयको ट्युपस्थापकतावच्छेदकरूपवत्त्वम् । अत्रायमर्थः । उभयकोटी साध्यतदभावौ । तदुपस्थापकतावच्छेदकं च रूपं साधारणत्वादित्रितयम् । तज्ज्ञाने सति पक्षः साध्यवान्न वा इति संशय उदेति इति । अथ वा यथाकथंचित् कोटिद्वयोपस्थितिः ( साध्यतद्भाव एतद्वयोपस्थितिः) स्मृत्यनुभवसाधारणी संदेहजननी । नियामकं तु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् । अत एव धारावाही संदेहः इति मते धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूपविशिष्ट (धर्मवत्ता) ज्ञानं साध्यसंदेहजनकम् तद्रूपवत्त्वम् । पर्यवसितार्थस्तु तद्धर्मपर्याप्तधर्मितावच्छेदकताकयत्किंचित्संशयनिरूपितायां जनकतायामवच्छेदकीभूता या तद्धर्मनिष्ठधर्मितावच्छेदकता निरूपकप्रकारता तन्निरूपितावच्छेदकतापर्यात्यधिकरणधर्मवत्त्वम् (ग० सव्य ० ) इति । इदं च साध्यतदभावसाहचर्यावच्छिन्नकारणतामतमङ्गीकृत्योक्तम् इति विज्ञेयम् । यद्वा यद्रूप ९८० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102