Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
૨૦૦૬
1
I
ल० १ पृ० ३ ) । तत्र गौतमवृत्तिकारादीनां नैयायिकानां नये स हेत्वाभासः पञ्चविधः व्यभिचारः विरोधः सत्प्रतिपक्षः असिद्धिः बाधश्चेति । अत्र नैयायिकसिद्धान्तस्तु बाधसत्प्रतिपक्षभिन्ना ये हेत्वाभासास्तद्व्याप्या अपि तत्रैवान्तर्भवन्ति । बाधव्याप्यस्यापि तु सत्प्रतिपक्षस्य स्वतच्छेन मुनिना गौतमेन पृथगुपदेशान्न बाधेन्तर्भावः । सत्प्रतिपक्षव्याप्यस्तु नानुमितिप्रतिबन्धकः । तद्वत्ताज्ञाने तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वेपि तदभावव्याप्यव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वे मानाभावान्न त्वाभासलक्षणाक्रान्तत्वं तस्येति पञ्चैव हेत्वाभासाः (म० प्र० २ पृ० २८ ) इति । अत्रायं भावः । सव्यभिचारत्वादयो ये दोषाः तद्व्याप्या अपि त एव भवन्ति । तथा च सव्यभिचारत्वव्याप्यं सव्यभिचारत्वमेव विरुद्धत्वव्याप्यं विरुद्धत्वमेव इत्याद्यूह्यम् । परं तु बाधव्याप्यो भिन्न एव । स च सत्प्रतिपक्षो भवति । सत्प्रतिपक्षव्याप्यस्तु न सत्प्रतिपक्षः । तस्यानुमितिविरोधित्वाभावेन हेत्वाभास सामान्यलक्षणानाक्रान्तत्वात् इति । - अन्यत्र चैवमुक्तम् । यत्र धर्मिणि यो धर्मो यादृशो हेत्वाभासस्तत्र तद्व्याप्यधर्मोप स एव हेत्वाभासो भवति विना सत्प्रतिपक्षम् । बाधव्याप्यस्तु सत्प्रतिपक्षनामा हेत्वाभासो भिन्न एव । महर्षिणा गौतमेन पृथगुपदेशात् अविरोधाच्च (दीधि० २ हेत्वा० पृ० २०४ ) ( मुक्ता० २ पृ० १६७ ) इति । कणादप्रशस्तपादादीनां वैशेषिकाणां नये हेत्वाभासखिविधः असिद्धिः विरोधः संदिग्धत्वं चेति । संदिग्धत्वमनैकान्तिकत्वम् । अत्रेदं तात्पर्यम् । बाधसत्प्रतिपक्षौ तु काश्यपीये ( काणादे ) मते न स्वतत्रौ । तत्र बाध आश्रयासिद्ध्यादौ अनैकान्तिके वा पर्यवस्यति । अत्रेदमाकूतम् । पक्षस्य साध्यशून्यत्वे हि बाधत्वमाहुः । तच्च साध्यशून्यत्वमत्र नातिरिच्यते । यत्र हि अश्वपिण्डं पक्षयित्वा अयं गौर्विषाणित्वात् इति साध्यते तत्र साध्यस्य गोत्वस्य पक्षे वृत्तिर्नास्तीति बाधत्वं वाच्यम् । तच्च कणादमतेनैकान्तिकत्वमेव । अत्रासिद्धिरप्यस्ति । पक्षेश्वपिण्डे विषाणित्वविरहात् । अत एवाहुः बाधोयमपक्षधर्मो हेतुरनैकान्तिको वा त० ० ३।२ श्लो० ५२-५३ पृ० ८३ ) (वै० ३० ३।१।१७ पृ० १६१ ) इति । सत्प्रतिपक्षोप्यन्यतरत्र व्याप्त्यादि
न्यायकोशः
Jain Education International
: ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102