Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1099
________________ न्यायकोशः । १०८१ न च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोरन्यतररूपशून्यतया हेत्वाभासत्वापत्तिः केवलान्वयिनि विपक्षासत्त्वस्य केवलव्यतिरेकिणि सपक्षसत्त्वस्य गमकत्वौपयिकत्वाभावात् । एवं च आश्रयासिद्धस्वरूपासिद्धभागासिद्धानां पक्षसत्त्वरूपविरहादाभासत्वम् । व्याप्यत्वासिद्धविरुद्धसाधारणानैकान्तिकानां विपक्षासत्त्वरूपवैकल्यात् । असाधारणानैकान्तिकानुपसंहारिणोः सपक्षसत्त्ववैकल्यात् । बाधितसत्प्रतिपक्षितयोरबाधितत्वासत्प्रतिपक्षितत्वविरहात् । एवम् सोपाधिकाप्रयोजकयोरपि विपक्षासत्त्वनिश्चयाभावाद्गमकत्त्रम् । अनुकूलतर्काभावप्रतिकूलतर्कयोरपि विपक्षासत्त्वनिश्चयविरहात् । एवम् साध्यविकलसाधन विकलोभय विकलदृष्टान्ताभासानां यदि हेत्वाभासविधया दोषत्वम् तदा सपक्षसत्त्वानिश्चयात् । यदि स्वातन्त्र्येण दृष्टान्ताभासतया तथापि द्वारं हेतोः सपक्ष सत्त्वानिश्चय एव । अनुपदर्शितान्वयानुपदर्शितव्यतिरेकास्तु न्यूना प्राप्तकालनिग्रहस्थानपर्यवसन्ना एव । आत्माश्रयान्योन्याश्रयचक्रकानवस्थास्तु व्याप्तिनिश्चयं विघटयन्तः सपक्ष सत्त्वविपक्षासत्त्वान्यतररूपविकला एव हेत्वाभासतामापादयन्ति (वै० उ० ३।१।१७ पृ० १५९-१६० ) इति । ङ ] असाधको हेतुत्वेनाभिमतः ( सर्व० पृ० २३९ अक्ष० ) । यथा हृदो वह्निमान् धूमात् इत्यादौ धूमो हेत्वाभासः । अत्र वह्नयभाववद्धदो बाधः वह्नयभावव्याप्यवद्धदः सत्प्रतिपक्षः धूमाभाववद्भदः स्वरूपासिद्धिश्च एतद्दोषत्रयवान् धूमो भवति इति धूमो हेत्वाभासः । यथा वा वायुर्गन्धवान्स्नेहात् इत्यादौ स्नेहः ( दि० २ ) । यथा वा घटः पटोस्ति कुड्यत्वात् इत्यादौ कुड्यत्वं हेत्वाभासः । हेत्वाभासस्य पञ्चविधत्वकथनमप्येतादृशस्थलाभिप्रायेणैव । तथा चात्र पञ्चानामपि दोषाणां संभवः । तथा हि गन्धाभाववद्वृत्तिः स्नेहः साधारणानैकान्तिकः । गन्धव्यापकीभूताभावप्रतियोगी स्नेहो - साधारणानैकान्तिकः । गन्धवदवृत्तिः स्नेहो विरुद्धः । स्नेहाभाववान्वायुरसिद्धिः तद्वान्स्नेहः असिद्धः स्वरूपासिद्धः । गन्धाभावव्याप्यवायुत्ववान् वायुः सत्प्रतिपक्षः तद्वान्स्नेहः सत्प्रतिपक्षितः गन्धाभाववान्वायुर्बाधः तद्वान्स्नेहो बाधितश्च इति । एवम् घटः पटोस्ति कुड्यत्वात् इत्यादावपि हेतौ पञ्चदोषवत्त्वमुन्नेयम् । अत्रेदं बोध्यम् । एकस्यैव १३६ न्या० को ० 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1097 1098 1099 1100 1101 1102