Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1101
________________ न्यायकोशः। १०८३ सोन्यतरासिद्धोनध्यवसायहेतुत्वादनध्यवसितः । यथा सत् कार्यमुत्पत्तेः इति । अयमप्रसिद्धोनपदेशः (वै० ३।१।१५) इति वचनादविरुद्धः (प्रशस्त० २ पृ० ४७ ) इति । सोपि कणादमते संदिग्धादावन्तर्भवति इति न त्रैविध्यविभागविरोधः (त० व० ३।२ श्लो० ५६ पृ० ८४)। अत्र भाष्यम् एतेन अप्रसिद्धविरुद्धसंदिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति ( प्रशस्त० २ पृ० ४६ ) इति । लीलावतीकारा अप्याहुः हेत्वाभासाश्चत्वारः विरुद्धासिद्धसव्यभिचारानध्यवसिताः। बाधप्रतिरोधावपि स्तः इति चेन्न । तयोः व्याप्तिपक्षधर्मतापहारेणैवानुमानदूषकत्वात् सिद्धसाधनवत् ( न्या० ली० पृ० ४३ ) इति । अत्रेदं चिन्त्यम् । उत्पत्तिकालीनो घटो गन्धवान्पृथिवीत्वात् इत्यादौ मूलावच्छिन्नो वृक्षः कपिसंयोगी इत्यादौ चासंकीर्णदोषस्थले बाधस्यैवातिरिक्तदोषत्वमवश्यमङ्गीकर्तव्यम् ( भा० ५० श्लो० ७९ ) ( चि० २ ) इति । मञ्जरीप्रकाशकारस्तु आद्यक्षणावच्छिन्नो घटो गन्धवान् स्नेहात् इत्यादौ व्यभिचारादिदोषपञ्चकमपि संभवति इत्याह (म० प्र० २ पृ० २५)। होत्रकः—मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः ( जै० न्या. __ अ० ३. पा० २ अधि० १२)। होमः-[क] याग एव विशिष्टदेशप्रक्षेपोपहितो होम इत्युच्यते ( का० व्या० कार० ४ पृ० ५)। यथा नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु मध्ये देवयज्ञः । यथा वा आपस्तम्बीयैः क्रियमाणं श्राद्धीयविप्रपाणी श्राद्धीयान्नभागस्य मत्रेण दानम् ( पाणिहोमः ) ( श्रा० त०)। [ख] त्यक्तस्य वह्नौ प्रक्षेपः होमः ( जै० न्या० अ० ४ पा० २ अधि० १३ ) । अत्र होमत्वं च मानसप्रत्यक्षगम्यो जातिविशेषः इत्यन्ये आहुः (दि० गु० धर्मनि० पृ० २३४ )। होलाका-वसन्तोत्सवः ( जै० न्या० अ० १ पा० ३ अधि० ८)। होलिका-सर्वदुष्टापहो होमः सर्वरोगोपशान्तिदः । क्रियतेस्यां द्विजैः पार्थ तेन सा होलिका स्मृता ।। ( पु०, चि० पृ० ३०९ )। अत्र विशेषः सार्धयामत्रयं वां स्याहितीये दिवसे यदा। प्रतिपद्वर्धमाना तु तदा सा होलिका स्मृता ॥ (पु० चि० पृ० ३१२ ) इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1099 1100 1101 1102