Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः।
१०७९ वैकल्यं यथा मनः अनित्यं मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्त न भवति यथा परमाणुः इति । उभयाभाववैकल्यं यथा मनः अनित्यं मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्त न भवति यथा घटः (प्र० च० पृ० २८-३५ ) इत्यलं विस्तरेण । २ दुष्टो हेतुः [क] हेतुलक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः ( वात्स्या० १।२।४ )। अत्र हेतुवदाभासते इति व्युत्पत्त्या हेत्वाभासपदस्य दुष्टहेतुः इत्यर्थः (ग० २ हेत्वा० सामा० प्रस्ताव० पृ० २)। यद्वा हेतोराभासः सदृशः (न्या० बिन्दु० टी० परि० ३ पृ० ६६)। अत्र श्रुतमस्मगुरुमुखात् । अत्र सादृश्यं च पञ्चम्यन्तपदप्रतिपाद्यत्वेन इति:साताराग्रामस्थात्रिपथगाकर्तारो गजेन्द्रगडकर इत्युपाह्वा राघवेन्द्राचार्याः प्राहुः इति । दुष्टहेतोर्लक्षणं च सव्यभिचाराद्यन्यतमत्वम् ( न्या० म० )। निरुक्तदोषवत्त्वं वा ( नील० २ हेत्वा० पृ० २४ )। अत्र निरुक्तदोषस्तु हेत्वाभासशब्दस्य प्रदर्शिते प्रथमेर्थे दृश्यः । अत्रेदं विज्ञेयम् । हेतौ तादृशदोषविशिष्टत्वं, च स्वविषयकज्ञानविषयत्वविशिष्टप्रकृतहेतुतावच्छेदकवत्त्वसंबन्धेन बोध्यम् । तेन हेतुषु दोषसंबन्धः (दोषाणां हेतुनिष्ठत्वम् ) संगच्छते (दीधि० २ हेत्वा० पृ० १७९ ) (ग० हे० सामा० ) इति । हेत्वाभासप्रयोजनं तु इत्थम् । द्वयं ह्युहेश्यम् परानुमितिप्रतिबन्धः स्थापनाया असाधकतासाधकत्वं च । अत्रासाधकत्वं च स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वम। तत्राद्यं दूषणमात्रज्ञानादेव। द्वितीयं तु अलिङ्गत्वज्ञापनात् प्रतिबन्धकत्ववदनेनापि रूपेण दूषकत्वसंभवः इत्यभिप्रायेण वा असाधकतासाधनत्वम् ( चि० २ हेत्वा० पृ० १११ ) इति । किंच विपरीतकोटिसाधकस्य हेतोः हेत्वाभासत्वज्ञानेन स्वस्य तत्त्वनिर्णयः (प्रमितकोटिनिश्चयः साध्यवत्ताज्ञाने प्रमात्वनिश्चयो वा ) भवति । स्वस्य परोक्तहेतौ हेत्वाभासत्वज्ञाने सति तत्र दोषोद्भावनेन व्याप्त्यादिविशिष्टहेतोः संन्यायप्रयोगकरणेन च विजयोपि भवति (ग० २ हेत्वा-सामा-प्रस्ताव. पृ० १-२) इति । अत्रेदं बोध्यम् । हेत्वाभासो निग्रहस्थानमेव । तथा च सूत्रम् हेत्वाभासाश्च यथोक्ताः (गौ० ५।२।२४ ) इति । अत्र चकारः साध्यविकलबादि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1095 1096 1097 1098 1099 1100 1101 1102