Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1095
________________ न्यायकोशः। संशयमापादयन्ननैकान्तिकादावेव पर्यवस्यति (वै० उ० ३।१।१७ पृ० १६०-१६१ ) इति । अत्रायमाशयः। यत्र वायुर्न प्रत्यक्षः नीरूपबहिर्द्रव्यत्वाद्गगनवत् इति साधिते वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् घटवत् इति प्रत्यवतिष्ठते । तत्र हि सत्प्रतिपक्ष इत्युच्यते नैयायिकैः । न चात्र द्वयोर्यथार्थत्वं संभवति । न ह्येकमेव वस्तु प्रत्यक्षमप्रत्यक्षं च भवितुमर्हति इति सुतरामेवान्यतरस्य भ्रान्तत्वमुपेयम् । तथा च अस्यापि। व्याप्त्यादिसंशयाधायकतयानैकान्तिकादावेवान्तर्भावः (त० व० पृ०८५) इति । केषांचिन्मते अनध्यवसितत्वनामा चतुर्थोपि हेत्वाभासः (प्रशस्त० ) (वै० उ० ) (मु० ) इति । [ग] वेदान्तिनस्त्वाहुः । हेत्वाभासः ( हेतुदोषः ) उपपत्तिदोषः इत्युच्यते । उपपत्तिदोषो द्विविधः (१) विरोधः (२) असंगतिश्चेति । तत्र आद्यः जातिनिग्रहस्थानहेत्वाभासेभ्यः संगृहीतः (प्र० च०)। स च विरोधस्त्रिविधः प्रतिज्ञाविरोधः हेतुविरोधः दृष्टान्तविरोधश्च । तत्र प्रतिज्ञाविरोधो द्विविधः प्रमाणविरोधः स्ववचनविरोधश्च । तत्र प्रमाणविरोधोपि द्विविधः प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्च । तत्र प्रबलप्रमाणविरोधस्योदाहरणं प्रपञ्चो मिथ्या दृश्यत्वात् यदृश्यं तन्मिथ्या यथा शुक्तिरजतम् इति । अत्र सन् घटः इत्यादिप्रत्यक्षेण विमतं सत्यम् अर्थक्रियाकारित्वात् संप्रतिपन्नवत् इत्याद्यनुमानेन विश्वं सत्यम् इत्यागमेन च जगतः सत्यत्वावधारणात् प्रबलप्रमाणविरोधो द्रष्टव्यः (प्र० च० पृ० २९)। अयं हेतुर्नैयायिकैः बाधितः इत्युच्यते । समबलप्रमाणविरोधस्योदाहरणं तु विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यम् प्रामाणिकत्वात् आत्मवत् इति । अत्रानुमानद्वये व्याप्तिपक्षधर्मतयोः साम्यात् समबलप्रमाणविरोधो ज्ञातव्यः (प्र० च० पृ० २९)। अयं च हेतुर्नैयायिकैः सत्प्रतिपक्षितः इत्युच्यते । स्ववचनविरोधोपि द्विविधः अपसिद्धान्तः जातिश्चेति । तत्र पूर्वाचार्यत् प्रामाणिकतयाभ्युपगतं तद्विरुद्धाङ्गीकारोपसिद्धान्तः । यथा निरीश्वरसांख्यमत ईश्वराङ्गीकारः। अयं भावः पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वादपसिद्धान्तः स्ववचनविरोधो भवति (प्र० च० पृ० २९) इति । स्ववचन एव स्वव्याहति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102