Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1093
________________ न्यायकाशः. १०७५ प्रयुक्तस्तदुत्तरमनुमितावनाहार्यमानसज्ञाने वा पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहित्वस्य साध्यतावच्छेदकविशिष्टसाध्यनिरूपितव्याप्तिविशिष्टहेतुतावच्छेदकविशिष्टहेतुमत्त्वावगाहित्वस्य च द्वयोर्व्यतिरेकः (अभावः ) तत्त्वम् इति । इदं च सिद्धान्तसिद्धं हेतुदोषलक्षणम् इति मन्यन्ते नैयायिकाः । तथा च लक्षणसमन्वयः । ह्रदो वह्निमान् धूमात् इत्यादौ वह्नयभावविशिष्टहृदत्वावच्छिन्नविषयकनिश्चयानन्तरम् ह्रदो वह्निमान् वह्निव्याप्यधमवांश्च इत्याकारकानुमितेः कदाचिदप्यनुदयेन घटाद्यनुमितय एव तादृशनिश्चयाव्यवहितोत्तरानुमितिसामान्या. न्तर्गता भवन्ति । तासु च हृदत्वादिविशिष्टे यद्वह्नित्वाद्यवच्छिन्नवह्निवैशिष्ट्यावगाहित्वम् वह्नित्वाद्यवच्छिन्नवह्निव्याप्तिविशिष्टधूमत्वाद्यवच्छिन्नवैशिष्ट्यावगाहित्वं च तदुभयाभाववत्त्वमक्षतमेव इति । तत्र तादृशोभयाभावे तादृशनिश्चयीयविरोधिविषयिता(वह्नयभाववद्भदादिविषयिता)प्रयुक्तत्वमप्यक्षतम् । स्वनिष्ठप्रतिबन्धकतावच्छेदकधर्मस्य स्वान्तरोत्पन्न- ज्ञाननिष्ठप्रतिबध्यतावच्छेदकधर्माभावं प्रति प्रयोजकत्वम् इति नियमात् (ग० २ हेत्वा० सामा० पृ० २० )। केचित्तु यादृशपक्षकयादृशसाध्यकयाइशहेतौ यावन्तो दोषाः संभवन्ति तावदन्यान्यत्वम् इति प्राहुः ( दीधि० २ सामा० पृ० १८० ) ( म० प्र० २ पृ० २५) (मु० २ )। तत्तद्विषयितान्यतमविषयितानिरूपकतावच्छेदकधर्मवत्त्वम् इत्यर्थः (ग० २ हेत्वा० सामा० पृ० ३१)। [ख] अनुमितितत्करणान्यतरप्रतिबन्धकज्ञानविषयो धर्मः ( हेत्वाभासत्वोपाधिः ) (त० कौ० २) ( म०प्र० २ पृ० २५)। यथा हृदो वह्निमान् धूमात् इत्यादौ वह्नयभाववद्भदादिरूपो दोषो बाधः हेत्वाभासः । अत्र तद्वत्ताबुद्धौ तदभाववत्तानिश्चयः प्रतिबन्धकः इति नियमात् वह्नयभावविशिष्टस्य हृदस्य निश्चयः वह्नयभाववान् हृदः इत्याकारकः हृदो वह्निमान् इत्यनुमितौ प्रतिबन्धको भवति सः वह्नयभावविशिष्टो हृद: दोषः इति विज्ञेयम् । अन्यतरेत्युक्त्या व्यभिचारविरोधसाधनाप्रसिद्धिस्वरूपासिद्धिष्वनुमित्यप्रतिबन्धकत्वेपि तत्करणव्याप्तिपक्षधर्मताज्ञानप्रतिबन्धकत्वसत्त्वान्नाव्याप्तिः ( म०प्र० २ पृ० २५) (ग० २ हेत्वा० सामा० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102