Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः।
१०७३ हेतुसमः-(जातिः) हेतोर्वैकल्यसाध्याथ पूर्वापरसहोदयम् । त्रेधापि तस्य
हेतुत्वभङ्गो हेतुसमो भवेत् ॥ ( ता० र० २ श्लो० ११८.)।
एतत्कारिकाव्याख्यानं तु अहेतुसमशब्दव्याख्यानरीत्या दृश्यम् । हेत्वन्तरम् (निग्रहस्थानम् ) [क] अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ( गौ० ५।२।६)। सूत्रार्थश्चेत्थम् । अत्र हेतौ इत्यनेन हेत्ववयवांशो न विवक्षितः । अपि तु साधकांशः । स च हेत्ववयवस्थ उदाहरणादिस्थो वा । अविशेषोक्ते इति पूर्वोक्त इत्यर्थः । विशेषमिच्छतः इति साभिप्रायम् । तेन परोक्तदूषणोदिधीर्षया तत्रैव हेतौ विशेषणान्तरप्रक्षेपोन्यहेतुकरणं वा द्वयमपि हेत्वन्तरम् (गौ० वृ० ५।२।६ ) इति । अत्र भाष्यम् । निदर्शनम् एकप्रकृतीदं व्यक्तमिति प्रतिज्ञा । कस्माद्धेतोः । एकप्रकृतीनां विकाराणां परिमाणात् । मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणम् । यावान्प्रकृतेव्यूहो भवति तावाविकार इति । दृष्टं च प्रतिविकारं परिमाणम् । अस्ति चेदं परिमाणं
प्रतिव्यक्तम् । तदेकप्रकृतीनां विकाराणां परिमाणात्पश्यामो व्यक्तमिद- मेकप्रकृति इति । अस्य व्यभिचारेण प्रत्यवस्थानम् नानाप्रकृतीनामेक- प्रकृतीनां च विकाराणां दृष्टं परिमाणमिति । एवं प्रत्यवस्थिते आह । .... एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् सुखदुःख
मोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते । तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्येकप्रकृतित्वमिति । तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेष ब्रुवतो हेत्वन्तरं भवति । सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वानिग्रहस्थानम् । हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते नेदं व्यक्तमेकप्रकृति भवति । प्रकृत्यन्तरोपादानात् । अथ नोपादीयते। दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेरानर्थक्याद्धेतोरनिवृत्तं निग्रहस्थानमिति ( वात्स्या० ५।२।६)। [ख] परोक्तदूषणोहिधीर्षया तत्रैव हेतौ पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्टवचनम् । [ग] प्राश्चस्तु हेतौ विशेषणदान एव हेत्वन्तरम् इत्याहुः । यथा शब्दः अनित्यो बाह्येन्द्रियप्रत्यक्षत्वात् इत्युक्ते सामान्येनैकान्तिकत्वेन च प्रत्युक्ते सामान्यवत्त्वे सति इति विशेषणम् । एवं विशिष्टहेतुमुक्त्वा १३५ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102