Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1089
________________ न्यायकोशः। उत्पादिका। अत्रेदं ज्ञेयम् हेतुत्वात्मिका संगतिरपि कारणत्वरूपा उपजीव्यत्वरूपा वा भवति नातिरिक्ता (भवा० ) (जागदी० ) इति । [ख] कारकम् । यथा यज्ञमनु प्रावर्षत् इत्यादौ अनुशब्दस्यार्थः। ३ स्वतनं प्रेरयन् ( ल० म०)। ४ शाब्दिकास्तु फलसाधनयोग्यः पदार्थः । यथा धनेन कुशलम् विद्यया यशः इत्यादौ तृतीयार्थो हेतुः इत्याहुः ( व्या० वृत्ति०)। अत्र हेतौ ( पाणि० २।३।२३ ) इत्यनेन सूत्रेणानुशिष्यते तृतीया । ५ फलम् । यथा अध्ययनेन वसति इत्यादौ तृतीयार्थः फलम् अध्ययनम् । ६ आलंकारिकास्तु अर्थालंकारविशेष इत्याहुः । ७ (न्यायावयवः) [क] पञ्चम्यन्तं तृतीयान्तं वा लिङ्गप्रतिपादकं वचनम् । यथा पर्वते धूमेन वह्निसाधने धूमवत्त्वात् इति वाक्यम् (तर्कभा० ) ( तर्कदी० )। अत्रेदं बोध्यम् । पश्चावयवप्रयोगे कर्तव्ये पर्वतो वह्निमानिति साध्यनिर्देशानन्तरं कुतः इत्याकाङ्क्षायां साधनताव्यञ्जकविभक्तिमल्लिङ्गवचनमेवोचितम् । अन्यथानाकाङ्क्षाभिधाने निग्रहापत्तेः । लोके तथैवाकाङ्गानिवृत्तिरिति व्युत्पत्तेः । अतः प्रतिज्ञानन्तरं हेतूपन्यासः (चि० २ पृ० ७८)। लिङ्गज्ञानं हेतुप्रयोजनम् (त० दी०२ पृ० २२ )। हेतुत्वं च अनुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकसाध्याविषयकशाब्दधीजनकहेतुविभक्तिमच्छब्दत्वम् । हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं वा । उदाहरणप्रयोजकजिज्ञासाजनकशाब्दज्ञानजनकन्यायावयवत्वं वा । अत्रायं भावः कचिन्जिज्ञासानुत्पादेपि तद्योग्यतासत्त्वान्नाव्याप्तिः । अनुक्तोदाहरणस्थलेपि तादृशयोग्यतासत्त्वात् न्यायावयव इति पदम् ( दीधि० २ अवय० पृ० १७४)। साध्याविषयकज्ञानजनकहेतुपञ्चम्यन्तानुमितिपरशब्दत्वं वा। अत्र अयं न दण्डात् दण्डसंयोगाजन्यद्रव्यत्वात् इत्यादौ प्रतिज्ञानिगमनयोरिणाय साध्याविषय इत्यादि । उपनयविशेषवारणाय हेतुपश्चम्यन्त इति पदम् ( दीधि० २ अवय० पृ० १७४)। यद्वा प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्तकज्ञानजनकहेतुविभक्तिमद्वाक्यत्वम् पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्यत्वं वा। तदर्थश्च प्रकृतपक्षान्वितस्वार्थबोधकपदोपस्थापितप्रकृतसाध्यान्वितस्वार्थबोधकपञ्चम्यन्तलाक्षणिकपदवदवयव Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102