Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1087
________________ १०६९' न्यायकोशः। हेतुत्वाभावः । तथा सति वाक्यभेदप्रसङ्गात् । न च अनर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः। तस्मात् समाने विषये एव बाध्यबाधकभावः इति नियमात्प्रकृते भिन्नविषयत्वाद्वाध्यबाधकभावासंभवात् निषिद्धत्वाञ्च पशुहिंसायाः श्येनवदनर्थप्रापकत्वमेव इत्यलं विस्तरेण (वाच० )। २ द्रोहः इति परे मन्यन्ते (गौ० पृ० ४।१।३ )। ३ चौर्य वृत्तिनाश इत्यादिकर्म इति काव्यज्ञा आहुः ( अमरः ३।३।२२८)। हितम्-१ इष्टसाधनम् । यथा यजनं विप्राय हितम् इत्यादौ हितशब्द स्यार्थः । अत्र संबन्धश्चतुर्थ्यर्थः । विप्रसंबन्धि हितम् इति बोधः । एवम् सुखयोगेपि विप्राय सुखम् इत्यादौ शाब्दबोधो विज्ञेयः (ल० म० सुबर्थ० कार० ४ पृ० १०४-१०५)। २ गतम् । ३ मङ्गलं च इति काव्यज्ञा आहुः। हिन्दुः-[क] जातिविशेषः । अत्र व्युत्पतिः हीनं दूषयति ( दुष् डु पृषो०) इति । अत्रोक्तम् पश्चिमाम्नायमत्रास्तु प्रोक्ताः पारस्यभाषया । अष्टोत्तरशताशीतियेषां संसाधनात्कलौ। पञ्च खानाः सप्त मीरा नव शाहा महाबलाः । हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्तिनः । हीनं च दूषयत्येव हिन्दुरित्युच्यते प्रिये । पूर्वाम्नाये नव शतं षडशीतिः प्रकीर्तिताः ॥ फिरिङ्गभाषया मन्त्रास्तेषां संसाधनात्कलौ । अधिपा मण्डलानां च संग्रामेष्वपराजिताः ॥ इंरेज़ा नवषट् पञ्च लण्ड्जाश्चापि भाविनः ( मेरुतबे० प्र० २३ ) इति । इदं मेरुतन्त्रमप्रमाणम् इति वाचस्पत्ये तारानाथतर्कवाचस्पतिराह । [ख ] अर्वाचीनास्तु भरतखण्डस्थजनानां हिन्दुः इति संज्ञा । यथा भरतखण्डस्य हिन्दुस्थानम् इति नाम इत्यादौ कल्पितवाक्ये हिन्दुशब्दस्यार्थ इति प्रलपन्ति । अत्रार्थे तुष्यतु दुर्जन इति न्यायेन व्युत्पत्तिः । सिन्धुशब्दः अपभ्रंशात् सकारस्थाने हकारोचारणात् हिन्दुः इति । तथा च वेदप्रतिपाद्यधर्मस्य सिन्धुनदीपर्यन्तत्वात् तद्धर्मवन्तोपि सिन्धुनामानः इति विज्ञेयम । अत एव अर्वाचीनाः सिन्धुपरिसरं भरतखण्डं हिन्दुस्थानम् इति व्यवहरन्ति । यथा दश दस .. इति स्थाने दाहा इति सार सारु इति स्थाने हारु इति च ॥ - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102