Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1098
________________ १०८० न्यायकोशः। दृष्टान्तदोषम् अनुपदर्शितान्वयत्वादियुक्तिदोषम् आत्माश्रयत्वादिव्याघातम् अनुक्तं त्रयमपि समुच्चिनोति ( सा० सं० पृ० १२० )। अत्र चकारस्य दृष्टान्ते साधनवैकल्यादिसमुच्चायकत्वम् इति केचिदाहुः । तन्न । यथोक्ताः इत्यस्यानन्वयापत्तेः (गौ० वृ० ५।२।२४) इति । अत्र भाष्यम् हेत्वाभासाश्च निग्रहस्थानानि हेत्वाभासलक्षणेनैव निग्रहस्थानभावः ( वात्स्या० ५।२।२४ ) इति । हेत्वाभासाः पुनर्यथा येन रूपेण पूर्वम् (गौ० सूत्रे १।२।४-९) उक्ताः तेनैव रूपेण तेषां निग्रहस्थानत्वम् इति न लक्षणान्तरमपेक्षितम् (गौ० वृ० ५।२।२४ ) ( ता० २० परि० ३ श्लो० १५४ ) । ते च हेत्वाभासाः निग्रहस्थानम् । निग्रहस्थानत्वं प्राप्तानां पुनरेषां पृथगुपदेशो वादे देशनीयत्वात् । तथा च भाष्यम् निग्रहस्थानेभ्यः पृथगुपदिष्टाः हेत्वाभासा वादे चोदनीया भविष्यन्तीति ( वात्स्या० १।१।१ पृ० ६)। वार्तिककारैरप्युक्तम् यस्मात्किलैते वादे देश्यन्ते अतः पृथगुपदिश्यन्ते न्यायसूत्रेण ( १।१।१ ). ( न्या० वा० १ पृ० २० ) इति । [ख] पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेण भासमानः ( गौ• वृ० १।२।४)। पश्च रूपाणि तु पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधितत्वम् असत्प्रतिपक्षितत्वं चेति (गौ० वृ० १।२।४ ) ( वै० उ० ३।१।१७ )। [ग] पक्षधर्मत्वादीनां पञ्चानां रूपाणां मध्य एकेनापि रूपेण हीनो यो हेतुः सोपि कतिपयहेतुरूपयोगाद्धेतुवदवभासमानः (त० भा० पृ०४४) (वै० उ० ३।१।१७ ) ( त० व० )। तथा चोक्तं तार्किकरक्षायाम् हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः । हेत्वाभासाः पञ्चधा ते गौतमेन प्रपश्चिताः॥ (ता. र० श्लो० ८० ) ( वै० उ० ३।१।१७)। अत्र न्यायवार्तिकमपि अन्यतमलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः सन्तो हेतुवदवभासन्त इति हेत्वाभासाः ( न्या० वा० १ पृ० २० ) इति । [घ ] यस्य हेतोर्यावन्ति रूपाणि गमकतौपयिकानि तदन्यतररूपहीनः स हेतुराभासः (वै० उ० ३।१।१७ पृ० १५९)। एवं च गमकतापयिकान्यतररूपशून्यत्वं हेत्वाभासत्वम् । तेन अन्यतररूपशून्य.. त्वस्य निश्चयवत् संदेहोप्यनुमितिप्रतिबन्धकः वादिहेतोरसाधकतासाधकः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1096 1097 1098 1099 1100 1101 1102