Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1092
________________ न्यायकोशः। यद्बाह्येन्द्रियप्रत्यक्षं तदनित्यम् इत्युदाहरणे न्यूनत्वेन विशिष्टोक्तौ । एवमुपनयविशेषणेपि (गौ० ० ५।२।६ ) (दि. १)। [] परोक्तदूषणोदिधीर्षया पूर्वोक्तहेतुकोटौ विशेषणान्तरोपादानम् ( नील० पृ० ४५ )। हेत्वप्रसिद्धिः–साधनाप्रसिद्धिः । हेत्वसिद्धिः-(व्याप्यत्वासिद्धिः) साधनाप्रसिद्धिः । अपरे तु व्यर्थविशेषण घटितं हेतुतावच्छेदकमेव हेत्वसिद्धिः इत्याहुः । हेत्वाभासः-१ ( हेतोर्दोषः ) [क] यस्य हि ज्ञानमनुमितिप्रतिबन्धकम् सः (चि० २ बाध० पृ० ११६ )। अत्र हेतोः हेतौ वा आभासः इति व्युत्पत्त्या हेत्वाभासपदस्य हेतुदोषः इत्यर्थः । हेत्वाभासत्वं च अनुमितिकारणीभूताभावप्रतियोगि(अनुमितिप्रतिबन्धक )यथार्थज्ञानविषयत्वम् । अनुमितिप्रतिबन्धकीभूतयथार्थज्ञानविषयत्वम् इति समुदितार्थः (त० दी०२)। यद्विषयकत्वेन (लिङ्ग )ज्ञानस्य अनुमितिविरोधित्वं तत्त्वमिति वा । अत्रेदमधिकं विज्ञेयम् । गदाधयां द्वितीयहेत्वाभासलक्षणे हृदो वह्निमान् धूमात् इत्यादौ प्रमेयत्वविशिष्टबाधस्य (प्रमेयत्वविशिष्टवह्नयभाववद्धदस्य) दोषत्वानङ्गीकारादलक्ष्यतया तत्रातिव्याप्तिवारणाय लक्षणघटकयत्पदार्थे विशिष्टान्तराघटितत्वविशेषणम् । तत्रैव वह्नयभाववज्जलादिमद्वृत्तिजलवद्भदादावतिव्याप्तिवारणाय यत्पदार्थे विशिष्टद्वयाघटितत्वविशेषणं च दत्तम् । तत्रैव जातित्वेन हृदत्वावगाहिजातिमान्वह्नयभाववान् इत्यप्रतिबन्धकज्ञानमादायासंभववारणाय लक्षणघटकज्ञानपदार्थे अव्यापकविषयिताशून्यत्वविशेषणमपि दत्तं गदाधरभट्टाचार्यैः इति । इदं च बोध्यम् । अत्रानुमितिपदमजहत्स्वार्थलक्षणया अनुमितितत्करणान्यतरपरम् । साध्यव्याप्यहेतुमान् पक्षः साध्यवान् इत्याकारानुमितिपरं वा । तेन एकत्र हेतौ व्यभिचारादिप्रहेप्यन्यस्य परामर्शादनुमित्यनुत्पादेन व्यभिचारात् व्याप्त्यादिज्ञानेनान्यथासिद्धत्वाच व्यभिचारादिग्रहाभावस्यानुमित्यजनकत्वेपि न क्षतिः ( व्यभिचारादौ नाव्याप्तिः ) ( दीधि० २ हेत्वा० पृ० १७८ )। अथ वा ज्ञायमानं . सद्यदनुमितिप्रतिबन्धकम् तत्त्वम् ( चि० २ सामा० पृ० ८३ ) .. (मु० २)। अत्र वदन्ति । यद्विषयकनिश्चयस्य विरोधिविषयिता Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102