Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1088
________________ न्यायकोशः। हिमम्-१ ( जलम् ) कारणविशेषेण घनीभूतं जलम् । यथा गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी (देवीपु० अ० २) इत्यादौ हिमशब्दस्यार्थः । एवम् करकापि ज्ञेया। तत्प्रपञ्चस्तु आपः इति शब्दव्याख्याने ( पृ० १२४ ) दृश्यः। यथा शीतस्पर्शवत् (अमरः ११३।१९)। यथा हिमांशुश्चन्द्रः इत्यादौ हिमशब्दस्यार्थः । ३ ऋतुविशेषः। ४ चणिका ( वाचस्पत्ये राजनि०)। हीनवादी—पूर्वपादं परित्यज्य योन्यमालम्बते पुनः। पदसंक्रमणाज्ज्ञेयो ___ हीनवादी स वै नरः ॥ ( मिताक्षरा अ० २ श्लो० ९)। हु-(धातुः ) देवताद्रव्यसंबन्धविशिष्टद्रव्यप्रतियोगिकसंयोगरूपो व्यापारो जुहोत्यर्थः ( जै० सू० वृ० अ० ४ पा० २ सू० २८)। हुडुक्कारः-जिह्वातालुसंयोगान्निष्पाद्यमानः पुण्यो वृषनादसदृशो नादः (सर्व० सं० पृ० १६९ नकु० )। हे—(अव्य० हाडे ) १ संबोधनम् । २ आह्वानम् । ३ असूया (मेदि०)। एवम् है हो इत्यादयः शब्दा व्याख्येयाः ( वाच० )। हेतुः-१ ज्ञापकः । यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् धूमात् इत्यादी धूमः । अयमेव लिङ्गशब्देन अनुमानशब्देनापि च व्यवह्रियत इति बोध्यम् । अत्र सूत्रम् हेतुरपदेशो लिङ्गं प्तमाणं करणमित्यनर्थान्तरम् (वैशे० सू० ९।२।४ ) । अत्र ज्ञापकज्ञानविषयत्वरूपं प्रयोजकत्वमेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमत्त्वं वा तृतीयार्थः ( ग० व्यु० का० ३ पृ० ८७ ) । केचित्तु परामर्शीयप्रकारत्वं हेतुत्वम् इत्यङ्गीचक्रुः । स चायं हेतुर्द्विविधः सद्धेतुः असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकवह्नयादिसाध्यकस्थले धूमादिः । द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् । पक्षसत्त्व सपक्षसत्त्व विपक्षासत्त्व अबाधितविषयत्व असत्प्रतिपक्षितत्व एतत्पश्चरूपोपपन्न एव हेतुः सद्धेतुर्भवति । कश्चित् चतूरूपोपपन्नोपि हेतुः सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयत्वं सद्धेतुः । कश्चित् त्रिरूपोपपन्नोपि हेतुः सद्धेतुर्भवति । यथा सर्व प्रमेयमभिधेयत्वात् इत्यादौ अभिधेयत्वं सद्धेतुर्भवति ( ल० व० २ पृ० २७ ) इति । २ [क] कारणम् ( उत्पादकम् ) । यथा मृत् घटस्य हेतुः इत्यादौ मृत् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102