Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1086
________________ fote न्यायकोशः । निपात्यादत्ते ( श्रुतिः ) इत्यर्थवादे श्येनसाम्येन प्रकृतयागस्तवनात् । अभिचरन् शत्रुवधं कामयमानः । तथा च श्येननामको यागः शत्रुवधरूपेष्टसाधनत्वे सति कृतिसाध्यः इत्यन्वयबोधः ( म०प्र० ख० ४ पृ० ६१ ) । अत्रत्यविषयस्तु अभिचारशब्दव्याख्यानावसरे संपादितो दृश्यः । हिंसा च द्रोहेण जन्यते ( गौ० वृ० ४|१|३ ) | अत्रेदमधिकं विज्ञेयम् । भोक्तानुमन्ता संस्कर्ता क्रयविक्रयिहिंसकाः । उपहर्ता घातयिता हिंसाचाष्टधा मताः ॥ ( काशीख ० ) ( मनु० ५१५१ ) इति । तस्माद्यज्ञे वधोवैधः ( मनु० अ० ५ श्लो० ३९ ) इति या वेदविहिता हिंसा नियतास्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ( मनु० अ० ५ श्लो० ४४ ) इति च मनुनोक्तत्वाद्यागया हिंसा अहिंसैव । अत्रायं भावः । वैधपशुहिंसा राजसत्वेन न ब्राह्मणविषया । अपि तु काम्यविषयकत्वेन क्षत्रियादिविषयैव । तत्रापि तस्या नरकसाधनत्वमस्त्येव । घृतपिष्टादिरूपपशूनां तु न काम्यविषयत्वम् । अपि तु मोक्षफलकतत्त्वज्ञानसाधनयागाङ्गत्वमेव । तथा च मनुः कुर्याद्धृतपशुं संगे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ( मनु० अ० ५ श्लो० ३७ ) इति । अत्र संगे इत्यस्य सम् सम्यक् गम् गतिः इति व्युत्पत्त्या सम्यग्ज्ञानम् इत्यर्थः । तत्त्वज्ञानम् इति यावत् । संगे इत्यस्य आसक्तौ पशुबलिप्रसक्तौ स्मार्तकर्मणि वा इत्यादिकं तु कुल्लक भट्टराघवानन्दादीनामपव्याख्यानमेव ननु पविष्ट्यादौ हिंसाया वैधत्वेन मनुवचनादहिंसात्वमेवेति न तद्विसाया नरकप्रयोजकत्वम् इति चेन्न | मा हिंस्यात्सर्वा भूतानि इति शास्त्रेण तद्धिंसाया अपि निषेधात् । न च मा हिंस्यात्सर्वा भूतानि इति सामान्यशास्त्रं विशेषशास्त्रेण अग्नीषोमीयं पशुमालभेत इत्यनेन बाध्यते इति वाच्यम् । विरोधाभावात् । विरोधे हि बलीयसा दुर्बलं बाध्यते । न चास्ति विरोधः । भिन्नविषयत्वात् । तथा हि मा हिंस्यात् इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि । अग्नीषोमीयं पशुमालभेत इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते । न वनर्थ 1 1 १ वधः अवधः इति पदच्छेदः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102