Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः। सघृतस्य करादेः प्रसारणन्युब्जीकरणादिरेव । अत एव घृतादेः परित्यागित्वविरहात्विजादेर्न यष्टत्वम् । किंतु होतृत्वमेव इति विज्ञेयम् । अत्र धात्वर्थघटकपतने घृतस्याधेयत्वेनान्वयः । तथा च अन्यधिकरणकस्य घृतवृत्तिपतनस्यानुकूलमत्रकरणकक्रियावान् इत्येवं तत्र बोधो भवति इति विज्ञेयम् ( श० प्र० श्लो० ७३ टी० पृ० ९५ )। [१] वह्निसंयोगावच्छिन्नपतनानुकूलमन्त्रकरणकक्रिया यथा घृतं जुहोति इत्यत्र हुधात्वर्थः । अत्र वह्निसंयोगजनकं यद्धृतस्य पतनम् तदनुकूलमत्रकरणकक्रियाविशेषवान् इत्याकारको बोधः (श० प्र० श्लो० ७३ टी० पृ० ९५)। [3] वैध आधारे हविषः प्रक्षेपः इति शाब्दिका वदन्ति । [च ] देवतोद्देश्यकोग्नौ मत्रपूर्वकं हविःप्रक्षेपः । यथा ऋत्विजो
जुह्वति इत्यादावपि ऋत्विजां होतृत्वम् । अत्र प्रक्षेपश्व अमिसंयोगानुकूल-- क्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः (का० व्या० का० ४ पृ० ५)।
[छ ] नवीनमते तु विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागो हवनम्
( दायभाग० ) ( का० व्या० का० ४ पृ० ५ ) इति ज्ञेयम् । हविष्टम्त्यागकर्मत्वम् । यथा मत्रकरणकहविस्त्यागः इत्यादौ ग्रन्थे हविःशब्दस्यार्थः (त० प्र० ख० ४ पृ० १२३ )। हविर्द्रव्यं तु
आज्यपशपुरोडाशादि यथाविधि विज्ञेयम्। हानम्-१ [क] निवृत्तिप्रयोजकमनिष्टसाधनताज्ञानम् । स्वानिष्टसाधनता
प्रकारकं ज्ञानम् इत्यर्थः (प० च०)। [ख] दुःखसाधनत्वज्ञानम् ।
यथा सर्पो मे दुःखसाधनम् इति ज्ञानम् ( सि० च० १ पृ० २१ )। . २ केचित्तु ज्ञानम् । तच्च कचित् तत्त्वज्ञानम् इत्याहुः (न्या० वा० . पृ०४)।३ काव्यज्ञास्तु परित्यागः (इच्छाविशेषः)। यथा हिमहानकृता
न कृता कचन ( भट्टिः १०।५) इत्यादौ हानशब्दार्थ इत्याहुः । हासः-१ [क] प्रीत्या मुखकमलादेर्विकासः। यथा हसति इत्यादौ हस्
धात्वर्थः। [ख] कण्ठोष्ठपुटविस्फूर्जनपुरःसरं अहहह इत्यगृहासः (सर्व० सं० पृ० १६९ नकु० ) इति पाशुपता आहुः । [ग] दोषदर्शनपूर्वको हासः । यथा ततो जहासातिरुषा भीमं भैरवनादिनी ( सप्तश० ७१९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102