Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1083
________________ न्यायकोशः । २०६५ हन्ति कृशोदर इत्यादौ हन्तेरर्थः इत्याहुः । ३ गुणकास्तु गुणनम् । यथा त्रिभिर्हतम् सप्तभिर्हतम् इत्यादौ हनधात्वर्थः इत्याहुः । हन्त - ( अव्ययम् ) १ हर्षः । २ अनुकम्पा । ३ विषादः । ४ वाक्यारम्भः । ५ आर्तिः । ६ वादः । ७ संभ्रमः । ८ खेदः ( शब्दच ० ) ( मेदि ० ) । ९ अन्तः कल्पनम् ( अजयपालः ) ( वा० ) । हरिवासरः -- - द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ( पु० चि० पृ० २१२ ) । हर्षः – १ [क] चित्तोत्साहः । स च क्वचित् मिथ्याकारणं भवति । यथा हृष्टो दर्पति हप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ( आपस्त० ध० सू० ) इत्यादौ हृषधात्वर्थः । [ख] इष्टाधिगमजन्य आनन्दः । [ग] अभिप्रेत विषयकप्रार्थनाप्राप्तौ सुखानुभवो हर्षः ( न्या० वा० ) । २ पौराणिकास्तु कन्दर्पपिता इत्याहुः ( वामनपु० अ० ५ ) । ३ आधुनिकास्तु कलियुगीयो राजविशेषः । यथा हर्ष - चरितम् इत्यादौ हर्षशब्दार्थः इत्याहुः । हवनम् - [क] प्राचीनमते अग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारः । यथा संस्कृतेो घृतं जुहोति त्र जुहोत्यर्थः (ग० व्यु० का० २ पृ० ४२ ) । [ख] अग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः ( दि० गु० धर्मनि० पृ० २३४ ) । यथा घृतं जुहोति इत्यादौ दुधात्वर्थ: । अत्र घृतवन्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृतिमान् इत्यन्वयबोधः ( का० व्या० का० ४ पृ० ५ ) । [ग] वह्नयधिकरणकपतनावच्छिन्नमन्त्रकरणकक्रिया । यथा घृतं जुहोति इत्यादौ हुधातोरर्थः । वह्नौ जुहोति इत्यत्र सप्तम्यन्तस्यार्थो न धात्वर्थनिविष्टे पतनेन्वेति । वह्निवृत्तित्वविशिष्टपतने तद्वृत्तित्वस्यान्वये निराकाङ्क्षतापत्तेः । परंतु तदवच्छिन्नक्रियायामेवान्वेति । प्रतिमादौ घृतादिस्नपनं मत्रकरणकमपि नाम्यधिकरणकम् । वह्नौ घृतस्य प्रक्षेपमात्रमम्यधिकरणकतत्पतनानुकूलमपि न मन्त्रकरणकम् । अतस्तदुभयं न होमः । प्राजापत्येपि होमे मानस एव मनः करणम् इति स होमः । तादृशी क्रिया यात्र ११४ न्या० को ० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102