Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1082
________________ १०६३ न्यायकोशः। च । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ गोभ्यो हि महिषेभ्यश्च मानुवेभ्यश्च जन्तवः । मत्स्यादिभ्यश्च विविधा अन्तःकुक्षौ विशेषतः । अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च । गोभ्योश्वभ्यस्तथा चैव अष्टापदकिनीनकाः॥ मक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः । शरावति विकाराश्च करीषेभ्यो भवन्ति हि ॥ एवमादिरसंख्यातो गणः संस्वेदजो मया। सर्वासां निहितो. ह्येष प्राकर्मवंशजः स्मृतः ॥ ( वाचस्पत्ये वह्निपु० ) इति । ह-१ पादपूरणम् । २ संबोधनम् । ३ नियोग. . ४ क्षेपः । ५ विग्रहः । ६ निन्दा। ७ प्रसिद्धिः। ८ शिवः । ९ जलम् । १० शून्यम् । ११ आकाशः। १२ रक्तम् । १३ स्वर्गः। १४ धारणम् । १५ पापहरणम् । १६ चन्द्रः। १७ सकोपवारणम् । १८ शुष्कम् ( मेदि० ) ( शब्दर० ) ( अमरः ) ( एकाक्षरको०)। हठयोगः-प्राणायामादिक्रियाभ्यासजन्यः ,राजयोगं विनैव परमात्म- साक्षात्काररूपश्चित्तवृत्तिनिरोधः । स च तन्त्रप्रसिद्धः । तत्प्रकारस्तु हठदीपिकादावुक्तो द्रष्टव्यः । अत्र विग्रहः हठेन बलात्कारेण योगः चित्तवृत्तिनिरोधः इति । हननम्-१ स्यात्प्राणवियोगफलव्यापारो हननं स्मृतम् । यथा आततायिन मायान्तं हन्यादेवाविचारयन् ( स्मृतिः) इत्यादौ हन्धात्वर्थः । वीरमित्रोदये आततायिवधे सिद्धान्तसिद्धनिर्णयस्तु हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् । कामतोपि चरेद्वीर द्वादशाब्दाख्यमुत्तमम् ॥ इति शिखावानपि गोविनं न हन्याद्वै कदाचन (भविष्यपु०) इति च स्मृतेः। आततायिन्यदोषोन्यत्र । अतः गोब्राह्मणं यदा हन्यात्तदा प्रायश्चित्तं कुर्यात् (संवर्तः) । नाततायिवधे दोषोन्यत्र गोब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यात् (सुमन्तुः) । अत्र अधिकं तु हिंसाशब्दव्याख्याने वधशब्दव्याख्याने च दृश्यम् । २ आलंकारिकास्तु गतिः। यथा कुञ्ज Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102