Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1072
________________ न्यायकोशः। यदा कर्मसु काम्येषु स्त्रियः स्वप्नेभिपश्यति । समृद्धि तत्र जानीयात्तस्मिस्वप्ननिदर्शने (छान्दो० ५।२।९ ) इति । तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इति । आचक्षते च स्वप्नाध्यायविदः कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि ( शारी० भा० ३।२।४ ) इति । अत्र शुभाशुभसूचकत्वं स्वप्नभेदस्य मत्स्यपुराणादौ ( अ० २४२ ) सविस्तरमुक्तम् तत्तत्र द्रष्टव्यम् । द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्यस्तु स्वप्नसृष्टपदार्थानां सत्यत्वमेव । तथा हि स्वप्नेपि गजादिदर्शनं यथार्थमेव । मानसवासनाजन्यत्वाद्गजादीनाम् । तेषु यद्बाह्यत्वज्ञानं तद्विपर्यय एव इति प्राहुः (प्र० प० पृ० ५)। अयं भावः । ईश्वरोनादिमनोगतांश्च संस्कारानुपादानीकृत्य स्वेच्छामात्रेण प्रदर्शयति पदार्थान् । अत्र श्रुतिः य एष. सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति विज्ञेया। न तत्र रथा न रथयोगाः (बृह० उ० ६।३।१० ) इत्यादौ तु. ईश्वरं विना इति पूरयित्वा अन्वयो योज्यः ( मध्वभाष्य० ३।२।१-३) इति। पुराणे चोक्तम् मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः। प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥ यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ ( मध्वभाष्ये ब्रह्माण्डपु० ३।२।३) इति । अत्र गजादिरूपकार्यस्योपादानं वासना ईश्वरः कर्ता अदृष्टादिकं निमित्तम् इति द्रष्टव्यम् (प्र० प० टी० वेदेश० पृ० १४)। स्वमान्तिकम्- (बुद्धिप्रभेदः अविद्या ) १ तत्कालोत्पन्नानुभवजनित संस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भवम् । स्वप्नानुभवजसंस्कारजम् इति यावत् । इदं ज्ञानं स्वप्नावस्थाजातानुभवजनितसंस्कारेण जायते । किंतु स्मृत्यात्मकम् न मानसम् इति विशेषः (वै० वि० ९।२।८ )। तथा च स्वप्नान्तिकस्वप्नज्ञानयोरेतावान् विशेषः । स्वप्नज्ञानं पूर्वानुभवजनितासंस्कारादुत्पद्यते । स्वप्नान्तिकं तु तत्कालोपन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात् स्मृतिरेव ( वै० उ० ९।२।८ ) इति । अत्र सूत्रम् स्वप्नान्तिकम् (वै० ९।२।८ ) इति । तदर्थश्च स्वप्नज्ञानं यथात्ममन: Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102