Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः।
१०५७ स्वरूपयोग्यत्वम्- ( जनकत्वादिकम् ) तदवच्छेदकधर्मवत्त्वम् । यथा
अरण्यस्थस्यापि दण्डस्य घटं प्रति जनकत्वं स्वरूपयोग्यत्वम् (सि० च० १ पृ० २०) । अत्र च अरण्यस्थदण्डस्यापि घटकारणतायामवच्छेदकीभूतदण्डत्ववत्त्वात्स्वरूपयोग्यत्वरूपं जनकत्वं युज्यत इति बोध्यम् । यथा वा परमाणुवृत्तिरूपादेश्चक्षुरविषयत्वेपि चक्षुर्विषयत्वस्वरूपयोग्यत्वम् । तदर्थस्तु चक्षुर्जन्यज्ञानविषयत्वावच्छेदकीभूतधर्मवत्त्वम् इति । स च
धर्मोत्र रूपत्वम् । तच्च परमाणुवृत्तावपि रूपादौ वर्तत इति सर्व सुस्थम् । स्वरूपलक्षणम्-स्वरूपान्तर्गतत्वे सति व्यावर्तकम् ( सर्व० सं० पृ० . ४६६ शां०)। स्वरूपसंबन्धः-संबन्धान्तरेण विशिष्टप्रतीतिजननायोग्यत्वम् ( चि० १)।
यथा भूतले घटो नास्ति इत्यादौ घटाभावादेर्भूतलेन संबन्धः। स द्विविधः केवलस्वरूपः विशेषणता चेति । तत्राद्यो भावाभावान्यतरप्रतियोगिकः । यथा आधेयत्वप्रतियोगित्वादीनां संबन्धः । द्वितीयत्रिविधः दैशिकविशेषणता दिकृतविशेषणता कालिकविशेषणता चेति । तत्राद्यश्वाभावमात्रप्रतियोगिकः । यथा भूतलादिना घटाभावादीनां संबन्धः । द्वितीयतृतीयौ तु दिक्कालानुयोगिको जन्यमात्रप्रतियोगिकौ च । यथा गन्धघटादीनां संबन्धौ दिक्कालाभ्याम् इति । इमावेव सर्वाधारताप्रयोजकसंबन्धौ इति जेगीयेते ( त० दी० १ कालनि० पृ० १०)। अत्राहुः । स्वरूपसंबन्ध इत्यस्य अनुयोगिप्रतियोग्यन्यतरस्वरूपः संबन्धविशेषः इत्यर्थः । यद्वा स्वरूपसंबन्धो धर्मिद्वयात्मकः। अथ वा षट्
पदार्थातिरिक्तः भावरूपः पदार्थविशेषः स्वरूपसंबन्धः इति । स्वरूपासिद्धः– ( हेत्वाभासः) [क] यो हेतुराश्रये नावगम्यते सः ।
यथा सामान्यमनित्यं कृतकत्वात् इत्यादौ कृतकत्वं स्वरूपासिद्धम् । अत्र कृतकत्वं हेतुराश्रये सामान्ये नास्ति (त० भा० हे० पृ० ४५ )। यथा वा शब्दो गुणश्चाक्षुषत्वात् इत्यादौ चाक्षुषत्वं स्वरूपासिद्धम् । अत्र चाक्षुषत्वं शब्दे पक्षे नास्ति शब्दस्य श्रावणत्वात् इति चाक्षुषत्वं स्वरूपासिद्धं भवति इति ज्ञेयम् ( त० सं० )। अयमेव हेतुः शुद्धासिद्धः १३३ न्या० को.. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102