Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
मन्यायकोशः।... संयोगविशेषसंस्कारोभयजन्यम् तथा स्वप्नान्तिकाख्यं ज्ञानमपि (वै० वि० ९।२।८ ) इति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथाप्यतीतज्ञानप्रबन्धस्य प्रत्यवेक्षणात्स्मृतिरेवेति (प्रशस्त० गु० पृ० २५)। २ केचित्तु स्वप्नमध्ये प्रमाभूतं यज्ज्ञानम् तत् स्वप्नान्तिकम् । यथा
शय्यायां शयानोस्मि इत्यादि इत्याहुः ( वै० उ० ९।२।८ )। स्वभावः-हेत्वन्तरानपेक्षो वस्तुधर्मविशेषः । यथा स्वभावो दुरतिक्रमः
अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मात्स्वभावात्तव्यवस्थितिः॥ (सर्व० पृ० १३ चार्वा० ) इत्यादौ स्वभावशब्दस्यार्थः । तत्र प्राणिस्वभावस्तु द्विविधः निसर्गः स्वरूपं चेति। तदुक्तम् बहिहेत्वेनपेक्षी तु स्वभावोथ प्रकीर्तितः । निसर्गश्च स्वभावश्च इत्येष भवति द्विधा ॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतःसिद्धः
स्वरूपो भाव उच्यते ॥ ( उज्वलदत्त० ) इति । स्वम्-१ [क] समभिव्याहृतपदोपस्थाप्यः पदार्थः (ग० शक्ति०
पृ० ११६-११७ ) । निष्कृष्टार्थस्तु साक्षात्परंपरया वा यः स्वार्थस्य विशेष्यः यश्च स्वसमभिव्याहृतक्रियाकारक' दार्थः तदुभयम् । यथा चैत्रः स्वपुत्रं पश्यति इत्यादी स्वपदार्थः (ग० शक्ति० पृ० १२२ )। • [ख] तद्धटितवाक्यघटकक्रियान्वितः समभिव्याहृतपदोपस्थाप्यः । यथा
चैत्रः स्वपुत्रं पश्यति इत्यादौ स्वपदार्थश्चैत्रः । तद्धटितेत्यत्र तच्छब्देन स्वपदं ग्राह्यम् । क्रियान्वित इत्यन्तेन चैत्रस्य भ्राता स्वपुत्रं पश्यति इत्यादौ स्वशब्देन न चैत्रप्रतीतिः । २ व्यवहारज्ञास्तु स्वकीयम् धनादि
इत्याहुः ।.३ आत्मा। ४ ज्ञातिः । स्वयमुक्तिः-स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स
शास्त्रेषु न स साक्षित्वमर्हति ॥ ( मिताक्षरा अ० २ श्लो० ६९)। स्वरः-१ उदात्तानुदात्तस्वरितरूपो वर्णोच्चारणयत्नविशेषः । २ व्यञ्जनवर्णभिन्ना अकारादयो वर्णाः इति शाब्दिका आहुः। एषामचामुदात्तादिस्वरवत्त्वात् स्वरपदाभिधेयता । अत्र शिक्षा उदात्तश्चानुदात्तश्च स्वरितश्च स्वरात्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102