Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1071
________________ न्यायकोशः। तस्यामवस्थायां प्रबन्धेन प्राणापानसंतानप्रवृत्तावात्ममनःसंयोगविशेषास्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणेवासस्वपि विषयेषु प्रत्यक्षाकारं ज्ञानमुत्पद्यते (प्रशस्त० गु० पृ० २५)। अत्र च मानसं ज्ञानं ज्ञानलक्षणरूपालौकिकसंनिकर्षाद्भवति स्मरणं च संस्कारात् इति विशेषः ( वै० वि० ९।२१७ )। तच्च स्वप्नज्ञानं त्रिविधम् (१) किंचित् संस्कारपाटवात् (२) किंचित् धातूनां वातपित्तश्लेष्मणां दोषात् (३) किंचित् धर्माधर्मरूपादृष्टविशेषाच्चोत्पद्यते । तत्राद्यं (१) यथा कामी क्रुद्धो वा यदा यमर्थमाहतश्चिन्तयन्स्वपिति तदा सैव चिन्तासंततिः प्रत्यक्षाकारा संजायते (प्रशस्त० २ पृ० २५)। यथा वा पुराणादिश्रवणजनितसंस्कारवशाजायते कर्णार्जुनीयं युद्धमिदम् इत्याकारम् । द्वितीयं (२) यथा वातदोषादाकाशगमनवसुन्धरापर्यटनव्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वह्निप्रवेशवह्निज्वालालिङ्गनकनकपर्वतविद्युल्लताविस्फुरणदिग्दाहादिकं पश्यति। श्लेष्मदोषप्राबल्यात्तु समुद्रसंतरणनदीमजनधारासारवर्षणरजतपर्वतादि पश्यति । तृतीयं ( ३ ) यथा तजन्मानुभूतेषु जन्मान्तरानुभूतेषु वा सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारोहण· पर्वतारोहणच्छत्रलाभपायसभक्षणराजसंदर्शनादिविषयकम् । अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहणपङ्कमजनस्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते (वै० उ० ९।२।७) इति । सांख्या मायावादिवेदान्तिनश्च संस्कारमात्रजन्यः स्वप्नावस्थाशब्दवाच्यो बुद्धेर्विषयाकारः परिणामः स्वप्नः इत्याहुः । स्वप्नस्थपदार्थविषये सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिः । तत्र स्वप्नदृष्टपदार्थस्य मिथ्यात्वम् इति मायावादिवेदान्तिनोङ्गीचक्रुः । श्रुतिश्च स यत्र प्रस्खपिति इत्युपक्रम्य न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथारथयोगान् पथः सृजते ( बृह० उप० ६।३।९-१०) इति । सूत्रं च मायामानं तु कार्येनानभिव्यक्तस्वरूपत्वात् (ब्रह्मसू० अ० ३ पा० २ सू० ३ ) इति । तथा सूचकश्च हि श्रुतेराचक्षते च तद्विदः ( ब्रह्मसू० अ० ३ पा० २ सू० ४ ) इति । सूचकश्च . हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102