________________
न्यायकोशः। तस्यामवस्थायां प्रबन्धेन प्राणापानसंतानप्रवृत्तावात्ममनःसंयोगविशेषास्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणेवासस्वपि विषयेषु प्रत्यक्षाकारं ज्ञानमुत्पद्यते (प्रशस्त० गु० पृ० २५)। अत्र च मानसं ज्ञानं ज्ञानलक्षणरूपालौकिकसंनिकर्षाद्भवति स्मरणं च संस्कारात् इति विशेषः ( वै० वि० ९।२१७ )। तच्च स्वप्नज्ञानं त्रिविधम् (१) किंचित् संस्कारपाटवात् (२) किंचित् धातूनां वातपित्तश्लेष्मणां दोषात् (३) किंचित् धर्माधर्मरूपादृष्टविशेषाच्चोत्पद्यते । तत्राद्यं (१) यथा कामी क्रुद्धो वा यदा यमर्थमाहतश्चिन्तयन्स्वपिति तदा सैव चिन्तासंततिः प्रत्यक्षाकारा संजायते (प्रशस्त० २ पृ० २५)। यथा वा पुराणादिश्रवणजनितसंस्कारवशाजायते कर्णार्जुनीयं युद्धमिदम् इत्याकारम् । द्वितीयं (२) यथा वातदोषादाकाशगमनवसुन्धरापर्यटनव्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वह्निप्रवेशवह्निज्वालालिङ्गनकनकपर्वतविद्युल्लताविस्फुरणदिग्दाहादिकं पश्यति। श्लेष्मदोषप्राबल्यात्तु समुद्रसंतरणनदीमजनधारासारवर्षणरजतपर्वतादि पश्यति । तृतीयं ( ३ ) यथा तजन्मानुभूतेषु जन्मान्तरानुभूतेषु वा सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारोहण· पर्वतारोहणच्छत्रलाभपायसभक्षणराजसंदर्शनादिविषयकम् । अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहणपङ्कमजनस्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते (वै० उ० ९।२।७) इति । सांख्या मायावादिवेदान्तिनश्च संस्कारमात्रजन्यः स्वप्नावस्थाशब्दवाच्यो बुद्धेर्विषयाकारः परिणामः स्वप्नः इत्याहुः । स्वप्नस्थपदार्थविषये सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिः । तत्र स्वप्नदृष्टपदार्थस्य मिथ्यात्वम् इति मायावादिवेदान्तिनोङ्गीचक्रुः । श्रुतिश्च स यत्र प्रस्खपिति इत्युपक्रम्य न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथारथयोगान् पथः सृजते ( बृह० उप० ६।३।९-१०) इति । सूत्रं च मायामानं तु कार्येनानभिव्यक्तस्वरूपत्वात् (ब्रह्मसू० अ० ३ पा० २ सू० ३ ) इति । तथा सूचकश्च हि श्रुतेराचक्षते च
तद्विदः ( ब्रह्मसू० अ० ३ पा० २ सू० ४ ) इति । सूचकश्च . हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org