________________
१०५२
न्यायकोशः। . तत् इति स्थाने इदम् इत्युदयात् । सर्वं ज्ञानं निराकारमेव न तु ज्ञानं
तत्तद्विषयाकारम् । साकारज्ञानवादनिराकरणात् (त० भा० प्रमेय-नि० पृ० ४० )। तथा स्वप्नः ( वै० ९।२।७ ) इति सूत्रे चेत्थमुक्तम् । स्मृतौ यथा संस्कारः कारणं तथा खप्नसंज्ञकमानसज्ञानेपि इत्याह तथा इति । तथा आत्ममनःसंयोगविशेषात् पूर्वानुभवजनितसंस्काराच्च स्वप्नो मानसज्ञानविशेषो भवतीति । अत्र संयोगे विशेषो मेध्यामनःसंयोगात्मकदोषविशिष्टत्वम् । अत एव तदानीं भ्रम एव भवति । पूर्वानुभवश्चैहिको जन्मान्तरीयो वा (वै० वि० ९।२।७ पृ० ४०९)। अत्रेदं. बोध्यम् । स्वप्नज्ञानं पुरीतद्वहिर्देशयोः संधौ मनसि स्थिते अदृष्टविशेषेण चिन्ताविशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेन्तर्भवति ( सि० च० गु० पृ० ३४ ) (त० दी० गु० पृ० ३८)। स्वप्नज्ञानमनुभूतपदार्थस्मरणसंस्कारकफपित्तादिधातुशुभाशुभादृष्टैर्जन्यते । तच्च बाधितार्थविषयकम् ( नील० गु० पृ० ३८ ) इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा समवायिकारणम् इति ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव इति । उक्तं च वृत्तिकारैः। अनुभूतवस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वप्रज्ञानम् (वै० उ० ९।२।८ पृ० ४११ ) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्नज्ञानस्य खण्डितम् तद्भाष्यादितात्पर्यानाकलनादेव इति मम भाति । [ख] निद्रादुष्टान्तःकरणजं ज्ञानम् । [ग] मानसविपर्ययः (त० दी० गु० पृ० ३८) (सि० च०)। [घ] मिथ्याप्रत्ययप्रवाहः ( न्या० ली० गु० पृ० ३१)। [3] सिद्धाभिभूतज्ञानम् (न्या० ली० गु० पृ० ५९)। [च ] उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण यदनुभवनं मानसं तत् । स्वप्नज्ञानमित्थमुत्पद्यते । यदा बुद्धिपूर्वादात्मनःशरीरारब्धव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहारपरिणामार्थ वा अदृष्टकारितप्रयत्नापेक्षात्मान्त:करणसंबन्धजन्यक्रिया
प्रबन्धादतीतमन्तहृदये निरिन्द्रियात्मप्रदेशे निश्चलं मनस्तिष्ठति तदा , प्रलीनमनस्क इत्याख्यायते । प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org