________________
न्यायकोशः ।
२०५१
परधर्मो भयावहः || ( गीता अ० ३ श्लो० ३५ ) इत्यादौ स्वधर्म - शब्दस्यार्थ इत्याहुः । तदुक्तम् यो यस्य विहितो धर्मः स तज्जातेः प्रकीर्तितः । तस्मात्स्वधर्मं कुर्याश्च द्विजो नित्यमनापदि ॥ ( वाचस्पत्ये नरसिंहपुराणम् ) इति ।
-
I
स्वधा- -१ [क] पिनुद्देश्य कत्यागः । यथा पितृभ्यः स्वधेत्यादौ स्वधा - शब्दस्यार्थः । वेदादेशितोश्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागः इति फलितोर्थः (ग० व्यु० का० ४ पृ० १०० ) । अत्र निपातस्वधायोगे त्यागोद्देश्यवाचकपदात् नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पाणि० २।३।१६ ) इत्यनेन सूत्रेण चतुर्थी । [ख] पितृदेवोद्देशेन हविषस्त्यागः । यथा इदमन्नं पित्रे स्वधा इत्यादौ स्वधाशब्दार्थः । अत्र स्वधाशब्दार्थत्यागस्य विषयतयान्नादावन्वयः । तस्य स्वधाशब्दस्य निपातत्वेन तदर्थस्य भेदेनान्वयस्य व्युत्पत्तिसिद्धत्वात् । तथा च पित्रुद्देश्यक त्यागविषय इदमन्नम् इति बोधः । [ग] स्वस्वकरणको हविस्त्यागः । यथा इदं पित्रे स्वधा इत्यादौ स्वधाशब्दस्यार्थः । अत्र पित्रुद्देश्यकस्य स्वधापदकरणकस्य हविस्त्यागस्य कर्मेदम् इत्याकारको बोध: ( श० प्र० श्लो० ९४ टी० पृ० १२६ ) । २ पौराणिकाः कर्मज्ञाश्च मातृकाविशेषः । यथा नमः स्वधायै स्वाहायै ( पितृगाथा ) इत्यादौ स्वधाशब्दस्यार्थ इत्याहुः । इयं च दक्षकन्या । ब्रह्मणो मानसी कन्या च पितृपत्नी । अत्राधिकं तु ब्रह्मवैवर्ते द्रष्टव्यम् । स्वम:- - प्रदेशविशेषावस्थितमनः संयोगः ( नील० गु० पृ० ३८ ) मेध्यामनः संयोगो वा । यथा न कंचन स्वप्नं पश्यति ( बृह० उ० ४ | ३ | १९ ) इत्यादौ स्वप्नशब्दार्थः । यथा वा स्वप्नज्ञानं मानसविपर्ययः इत्यादौ प्रन्थे स्वप्नशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरीतद्बहिर्देशयोः संधिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः ।
स्वमज्ञानम् – (बुद्धिप्रभेदः अविद्या ) [क] जाग्रदवस्थायां बाह्यवस्त्वनुभवजन्यमयथार्थं स्मरणम् । तच्च निराकारमेव ( त० भा० प्रमेयनि० पृ० ४० ) । स्वने च सर्वमेव ज्ञानं स्मरणम् अयथार्थम् । दोषवशेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org