________________
न्यायकोशः ।
1
जीमूतवाहनप्रभृतयः आहुः । तत्रापि समुदायद्रव्ये स्वत्वम् इति मिताक्षराकृदादय आहुः । प्रदेशभेदे इति वङ्गदेशीय आहुः (वीरमित्रो० अ० २ पृ० ५२१ - ५५० ) । अत्राधिकं च वीरमित्रोदयजीमूतवाहनादौ दृश्यम् । [ ख ] द्रव्याणां यथेष्टक्रयविक्रयादिक्रियासु विनियोजको धर्मविशेषः । स चातिरिक्तः पदार्थः न तु यथेष्टविनियोगयोग्यत्वरूपः इति नव्याः दीधितिकारादयः आहुः (का० व्या० पृ० ६ ) । तदर्थश्च दानादिनाश्यः प्रतिग्रहजन्यः सप्तपदार्थातिरिक्तः कश्चनानिर्वाच्यः पदार्थः ( ल० म० ) इति । तत्रायमाशयः । प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारात् दानादितः स्वत्वं नश्यति प्रतिग्रहादितश्च स्वत्वमुत्पद्यते । अत एव निबन्धादौ भाविन्यपि स्वत्वम् । अन्यथा प्रतिमासं प्रतिवर्षं वा देयत्वेन प्रतिश्रुतस्य धान्यादिरूपस्य भाविवेन तत्र स्वत्वोत्पत्त्यनुपपत्तेः ( लीलावतीरहस्ये चूडामणि: ) ( श्रीकृष्णतर्कालंकारः ) । अतस्तादृशप्रत्ययव्यवहारप्रामाण्यानुरोधेन स्वत्वमतिरिक्तः पदार्थः । तच्च स्वत्वं दानादितो नश्यति प्रतिग्रहादितश्च जायते । तच्च बहिरिन्द्रिययोग्यम् । स्वं पश्यामि इति प्रतीतेः । वस्तुतः स्वत्वस्यानुमितिरेव न तु साक्षात्कारः ( का० व्या० पृ० ६ ) ( नील० ) इति । अत्रेदं बोध्यम् । सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ( मनु० १० ११५ ) इति । स्वत्वोत्पत्तौ साधारणोपायास्तु गौतमेनोक्ताः स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु इति । असाधारणोपायास्तु ब्राह्मणस्याधिकं लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० अ० २ दायभा० ) इति । केचित्तु जीमूतवाहनादयः प्रतिग्रहो न स्वत्वजनकः । अपि तु यथेष्टविनियोगार्हताप्रयोजकः । तथा च उत्पन्नमपि स्वत्वं संप्रदानव्यापारेण ममेदम् इति ज्ञानेन ( स्वीकारेण ) यथेष्टव्यवहाराह क्रियते इत्याहुः ( वीरमित्रो० अ० २ पृ० ५४२ ) । स्वधर्म :- १ यत्किचिद्व्यक्तिवृत्तिपदार्थमात्रम् । यथा घटवृत्तिर्धर्मो घटत्वादिः । २ धर्मज्ञास्तु स्वानुरूप वेदायुक्तः अविगीत: आचारादिधर्मः । यथा श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः
१०५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org