________________
न्यायकोशः। स्वतन्त्रत्वम्-१ इतरसत्तानधीनसत्ताकत्वम् । यथा परमेश्वरस्य राज्ञश्च
वा स्वातव्यम् । इतरसत्तेत्यस्यार्थस्तु इतरव्यापारानधीनव्यापारवत्त्वम् । स्वरूपप्रमितिप्रवृत्तिलक्षणे सत्तात्रैविध्ये परानपेक्षत्वम् इति मध्वमतानुयायिवेदान्तिन आहुः (प्र० च० परि० २ पृ०४७)।२ समभिव्याहृतक्रियाकारकान्तरानधीनत्वे सति कारकत्वम् ( ग० व्यु० कार० ३)। यथा चैत्रस्तण्डुलं पचति इत्यादौ चैत्रस्य स्वातन्त्र्यम् । इदं च स्वतन्त्रः कर्ता (पाणि० १।४।५४) इति सूत्रे कर्तुः स्वातन्त्र्यम् । तच्च सममिव्याहृतक्रियाकारकान्तरानधीनव्यापारवत्त्वम् इति । ३ कचित् शब्दा
प्रयोज्यत्वं स्वतन्त्रत्वम् इति केचिदाहुः ( मू० म० १)। स्वतो ग्राह्यत्वम्-स्वग्राहकसामग्र्या ग्राह्यत्वम् । यथा मीमांसकमते ज्ञान
प्रामाण्यं स्वतोपाह्यं भवति । ज्ञानग्राहकसामग्र्या ग्राह्यं भवति । तन्न , इति नैयायिकमतम् । अत्राधिकं तु प्रमात्वशब्दव्याख्याने सविस्तरं - संपादितम् इत्यत्रैव विरम्यते । स्वतो व्यावर्तकत्वम् । विशेषशब्दे अनयोः प्रपञ्चः संपादितः स स्वतो व्यावृत्तत्वम् । · तत्र ( पृ० ७८६ ) दृश्यः । स्वत्वम् -[क] यथेष्टविनियोगयोग्यत्वम् इति प्राञ्च आहुः ( का० व्या० पृ० ६) (त० दी० ) । यथा चैत्रस्य धनम् इत्यादौ धने
चैत्रनिरूपितं स्वत्वम् । तत्रायमर्थः । यथेष्टविनियोगयोग्यत्वं शास्त्रानिषिद्धविनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिन्द्रियवेद्यम् । प्रतिग्रहादेर्मानसज्ञानविशेषरूपस्य बहिरिन्द्रियायोग्यत्वात् ( का० व्या० पृ०. ६) इति । अत्र विप्रतिपत्तिः स्वत्वं लौकिकम् अलौकिकं वा इति । तत्र स्वत्वमलौकिकम् शास्त्रैकसमधिगम्यम् इति पूर्वपक्षः जीमूतवाहनादीनाम् । तच्च लौकिकमेव लोकप्रसिद्धमेव इति सिद्धान्तः विज्ञानेश्वरमित्रमिश्रादीनाम् इति मिताक्षरावीरमित्रोदयादौ सिद्धान्तितम्। तच्च स्वत्वं जन्मनैवोत्पद्यत इति मिताक्षराकारादयः विज्ञानेश्वरप्रभृतयः आहुः । तच्च विभागेन पित्रादिमरणादिनैव वोत्पद्यत इति वङ्गदेशीयाः १३२ न्या. को
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org