________________
न्यायकोशः। यदा कर्मसु काम्येषु स्त्रियः स्वप्नेभिपश्यति । समृद्धि तत्र जानीयात्तस्मिस्वप्ननिदर्शने (छान्दो० ५।२।९ ) इति । तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इति । आचक्षते च स्वप्नाध्यायविदः कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि ( शारी० भा० ३।२।४ ) इति । अत्र शुभाशुभसूचकत्वं स्वप्नभेदस्य मत्स्यपुराणादौ ( अ० २४२ ) सविस्तरमुक्तम् तत्तत्र द्रष्टव्यम् । द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्यस्तु स्वप्नसृष्टपदार्थानां सत्यत्वमेव । तथा हि स्वप्नेपि गजादिदर्शनं यथार्थमेव । मानसवासनाजन्यत्वाद्गजादीनाम् । तेषु यद्बाह्यत्वज्ञानं तद्विपर्यय एव इति प्राहुः (प्र० प० पृ० ५)। अयं भावः । ईश्वरोनादिमनोगतांश्च संस्कारानुपादानीकृत्य स्वेच्छामात्रेण प्रदर्शयति पदार्थान् । अत्र श्रुतिः य एष. सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति विज्ञेया। न तत्र रथा न रथयोगाः (बृह० उ० ६।३।१० ) इत्यादौ तु. ईश्वरं विना इति पूरयित्वा अन्वयो योज्यः ( मध्वभाष्य० ३।२।१-३) इति। पुराणे चोक्तम् मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः। प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥ यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ ( मध्वभाष्ये ब्रह्माण्डपु० ३।२।३) इति । अत्र गजादिरूपकार्यस्योपादानं वासना ईश्वरः कर्ता अदृष्टादिकं
निमित्तम् इति द्रष्टव्यम् (प्र० प० टी० वेदेश० पृ० १४)। स्वमान्तिकम्- (बुद्धिप्रभेदः अविद्या ) १ तत्कालोत्पन्नानुभवजनित
संस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भवम् । स्वप्नानुभवजसंस्कारजम् इति यावत् । इदं ज्ञानं स्वप्नावस्थाजातानुभवजनितसंस्कारेण जायते । किंतु स्मृत्यात्मकम् न मानसम् इति विशेषः (वै० वि० ९।२।८ )। तथा च स्वप्नान्तिकस्वप्नज्ञानयोरेतावान् विशेषः । स्वप्नज्ञानं पूर्वानुभवजनितासंस्कारादुत्पद्यते । स्वप्नान्तिकं तु तत्कालोपन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात् स्मृतिरेव ( वै० उ० ९।२।८ ) इति । अत्र सूत्रम् स्वप्नान्तिकम् (वै० ९।२।८ ) इति । तदर्थश्च स्वप्नज्ञानं यथात्ममन:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org