Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1070
________________ १०५२ न्यायकोशः। . तत् इति स्थाने इदम् इत्युदयात् । सर्वं ज्ञानं निराकारमेव न तु ज्ञानं तत्तद्विषयाकारम् । साकारज्ञानवादनिराकरणात् (त० भा० प्रमेय-नि० पृ० ४० )। तथा स्वप्नः ( वै० ९।२।७ ) इति सूत्रे चेत्थमुक्तम् । स्मृतौ यथा संस्कारः कारणं तथा खप्नसंज्ञकमानसज्ञानेपि इत्याह तथा इति । तथा आत्ममनःसंयोगविशेषात् पूर्वानुभवजनितसंस्काराच्च स्वप्नो मानसज्ञानविशेषो भवतीति । अत्र संयोगे विशेषो मेध्यामनःसंयोगात्मकदोषविशिष्टत्वम् । अत एव तदानीं भ्रम एव भवति । पूर्वानुभवश्चैहिको जन्मान्तरीयो वा (वै० वि० ९।२।७ पृ० ४०९)। अत्रेदं. बोध्यम् । स्वप्नज्ञानं पुरीतद्वहिर्देशयोः संधौ मनसि स्थिते अदृष्टविशेषेण चिन्ताविशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेन्तर्भवति ( सि० च० गु० पृ० ३४ ) (त० दी० गु० पृ० ३८)। स्वप्नज्ञानमनुभूतपदार्थस्मरणसंस्कारकफपित्तादिधातुशुभाशुभादृष्टैर्जन्यते । तच्च बाधितार्थविषयकम् ( नील० गु० पृ० ३८ ) इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा समवायिकारणम् इति ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव इति । उक्तं च वृत्तिकारैः। अनुभूतवस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वप्रज्ञानम् (वै० उ० ९।२।८ पृ० ४११ ) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्नज्ञानस्य खण्डितम् तद्भाष्यादितात्पर्यानाकलनादेव इति मम भाति । [ख] निद्रादुष्टान्तःकरणजं ज्ञानम् । [ग] मानसविपर्ययः (त० दी० गु० पृ० ३८) (सि० च०)। [घ] मिथ्याप्रत्ययप्रवाहः ( न्या० ली० गु० पृ० ३१)। [3] सिद्धाभिभूतज्ञानम् (न्या० ली० गु० पृ० ५९)। [च ] उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण यदनुभवनं मानसं तत् । स्वप्नज्ञानमित्थमुत्पद्यते । यदा बुद्धिपूर्वादात्मनःशरीरारब्धव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहारपरिणामार्थ वा अदृष्टकारितप्रयत्नापेक्षात्मान्त:करणसंबन्धजन्यक्रिया प्रबन्धादतीतमन्तहृदये निरिन्द्रियात्मप्रदेशे निश्चलं मनस्तिष्ठति तदा , प्रलीनमनस्क इत्याख्यायते । प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102