Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1069
________________ न्यायकोशः । २०५१ परधर्मो भयावहः || ( गीता अ० ३ श्लो० ३५ ) इत्यादौ स्वधर्म - शब्दस्यार्थ इत्याहुः । तदुक्तम् यो यस्य विहितो धर्मः स तज्जातेः प्रकीर्तितः । तस्मात्स्वधर्मं कुर्याश्च द्विजो नित्यमनापदि ॥ ( वाचस्पत्ये नरसिंहपुराणम् ) इति । - I स्वधा- -१ [क] पिनुद्देश्य कत्यागः । यथा पितृभ्यः स्वधेत्यादौ स्वधा - शब्दस्यार्थः । वेदादेशितोश्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागः इति फलितोर्थः (ग० व्यु० का० ४ पृ० १०० ) । अत्र निपातस्वधायोगे त्यागोद्देश्यवाचकपदात् नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पाणि० २।३।१६ ) इत्यनेन सूत्रेण चतुर्थी । [ख] पितृदेवोद्देशेन हविषस्त्यागः । यथा इदमन्नं पित्रे स्वधा इत्यादौ स्वधाशब्दार्थः । अत्र स्वधाशब्दार्थत्यागस्य विषयतयान्नादावन्वयः । तस्य स्वधाशब्दस्य निपातत्वेन तदर्थस्य भेदेनान्वयस्य व्युत्पत्तिसिद्धत्वात् । तथा च पित्रुद्देश्यक त्यागविषय इदमन्नम् इति बोधः । [ग] स्वस्वकरणको हविस्त्यागः । यथा इदं पित्रे स्वधा इत्यादौ स्वधाशब्दस्यार्थः । अत्र पित्रुद्देश्यकस्य स्वधापदकरणकस्य हविस्त्यागस्य कर्मेदम् इत्याकारको बोध: ( श० प्र० श्लो० ९४ टी० पृ० १२६ ) । २ पौराणिकाः कर्मज्ञाश्च मातृकाविशेषः । यथा नमः स्वधायै स्वाहायै ( पितृगाथा ) इत्यादौ स्वधाशब्दस्यार्थ इत्याहुः । इयं च दक्षकन्या । ब्रह्मणो मानसी कन्या च पितृपत्नी । अत्राधिकं तु ब्रह्मवैवर्ते द्रष्टव्यम् । स्वम:- - प्रदेशविशेषावस्थितमनः संयोगः ( नील० गु० पृ० ३८ ) मेध्यामनः संयोगो वा । यथा न कंचन स्वप्नं पश्यति ( बृह० उ० ४ | ३ | १९ ) इत्यादौ स्वप्नशब्दार्थः । यथा वा स्वप्नज्ञानं मानसविपर्ययः इत्यादौ प्रन्थे स्वप्नशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरीतद्बहिर्देशयोः संधिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः । स्वमज्ञानम् – (बुद्धिप्रभेदः अविद्या ) [क] जाग्रदवस्थायां बाह्यवस्त्वनुभवजन्यमयथार्थं स्मरणम् । तच्च निराकारमेव ( त० भा० प्रमेयनि० पृ० ४० ) । स्वने च सर्वमेव ज्ञानं स्मरणम् अयथार्थम् । दोषवशेन Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102