Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1067
________________ न्यायकोशः। स्वतन्त्रत्वम्-१ इतरसत्तानधीनसत्ताकत्वम् । यथा परमेश्वरस्य राज्ञश्च वा स्वातव्यम् । इतरसत्तेत्यस्यार्थस्तु इतरव्यापारानधीनव्यापारवत्त्वम् । स्वरूपप्रमितिप्रवृत्तिलक्षणे सत्तात्रैविध्ये परानपेक्षत्वम् इति मध्वमतानुयायिवेदान्तिन आहुः (प्र० च० परि० २ पृ०४७)।२ समभिव्याहृतक्रियाकारकान्तरानधीनत्वे सति कारकत्वम् ( ग० व्यु० कार० ३)। यथा चैत्रस्तण्डुलं पचति इत्यादौ चैत्रस्य स्वातन्त्र्यम् । इदं च स्वतन्त्रः कर्ता (पाणि० १।४।५४) इति सूत्रे कर्तुः स्वातन्त्र्यम् । तच्च सममिव्याहृतक्रियाकारकान्तरानधीनव्यापारवत्त्वम् इति । ३ कचित् शब्दा प्रयोज्यत्वं स्वतन्त्रत्वम् इति केचिदाहुः ( मू० म० १)। स्वतो ग्राह्यत्वम्-स्वग्राहकसामग्र्या ग्राह्यत्वम् । यथा मीमांसकमते ज्ञान प्रामाण्यं स्वतोपाह्यं भवति । ज्ञानग्राहकसामग्र्या ग्राह्यं भवति । तन्न , इति नैयायिकमतम् । अत्राधिकं तु प्रमात्वशब्दव्याख्याने सविस्तरं - संपादितम् इत्यत्रैव विरम्यते । स्वतो व्यावर्तकत्वम् । विशेषशब्दे अनयोः प्रपञ्चः संपादितः स स्वतो व्यावृत्तत्वम् । · तत्र ( पृ० ७८६ ) दृश्यः । स्वत्वम् -[क] यथेष्टविनियोगयोग्यत्वम् इति प्राञ्च आहुः ( का० व्या० पृ० ६) (त० दी० ) । यथा चैत्रस्य धनम् इत्यादौ धने चैत्रनिरूपितं स्वत्वम् । तत्रायमर्थः । यथेष्टविनियोगयोग्यत्वं शास्त्रानिषिद्धविनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिन्द्रियवेद्यम् । प्रतिग्रहादेर्मानसज्ञानविशेषरूपस्य बहिरिन्द्रियायोग्यत्वात् ( का० व्या० पृ०. ६) इति । अत्र विप्रतिपत्तिः स्वत्वं लौकिकम् अलौकिकं वा इति । तत्र स्वत्वमलौकिकम् शास्त्रैकसमधिगम्यम् इति पूर्वपक्षः जीमूतवाहनादीनाम् । तच्च लौकिकमेव लोकप्रसिद्धमेव इति सिद्धान्तः विज्ञानेश्वरमित्रमिश्रादीनाम् इति मिताक्षरावीरमित्रोदयादौ सिद्धान्तितम्। तच्च स्वत्वं जन्मनैवोत्पद्यत इति मिताक्षराकारादयः विज्ञानेश्वरप्रभृतयः आहुः । तच्च विभागेन पित्रादिमरणादिनैव वोत्पद्यत इति वङ्गदेशीयाः १३२ न्या. को Jain Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102