Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1078
________________ १०६० न्यायकोशः। मदीयेच्छा इति बोधः (ग० व्यु० का० ४)। अत्र आशीश्च परहितविषयकेच्छा न तु स्वहितविषयकेच्छा विज्ञेया । अत्र व्याकरणम् अस्ति (सु अस् क्तिच्) इति विभक्तिप्रतिरूपकमव्ययम् । स्वस्तिशब्दयोगे क्षेमादिसंबन्धिनि चतुर्थी भवति । २ कल्याणम् ( कुशलम् )। यथा स्वस्त्यस्तु मह्यम् इत्यादौ स्वस्तिशब्दस्यार्थः (ग० व्यु० का० ४)। यथा वा स्वस्त्यस्तु प्रजाभ्यः इत्यादौ स्वस्तिशब्दस्यार्थः । अत्राद्ये चतुर्थ्यर्थः संबन्धः । तस्य च कल्याणेन्वयः (ग० व्यु० का०. ४ )। शाब्दबोधस्तु पूर्ववज्ज्ञेयः । स्वस्त्यस्तु प्रजाभ्य इत्यत्र प्रजानिष्ठं कुशलम् इत्यर्थः । स्वस्तिशब्दस्य कुशलवाचित्वात् । कुशलस्याशंसास्थले तु स्वस्त्यस्तु प्रजाभ्यः इतिवत् स्वस्त्यस्तु प्रजानाम् इत्यपि प्रमाणम् । आशास्यैर्धनकुशलायुष्याथैयोगे चतुर्थी वा इति भागुरिस्मृतेः इत्यपि वदन्ति ( श० प्र० श्लो० ९४ टी० पृ० १२६ )। ३ पुण्यम् । ४ स्वीकारसूचनम् । . खहस्तितत्वम्-स्वीकृतत्वम् (राम०)। यथा अनुभवस्य त्वया स्वहस्ति तत्वात् ( दि० ) इत्यादौ ग्रन्थे स्वहस्तितत्वशब्दस्यार्थः । स्वागतम्-१ शोभनमागमनम् ( कुमा० टी० २।१८ ) । यथा स्वागतं स्वानधीकारान् ( कुमार० स० २ श्लो० १८ ) इत्यादौ स्वागतशब्दस्यार्थः । २ कुशलम् । ३ कुशलप्रश्नः ( हारा० )। यथा स्वागतं वो महाभागाः वयं किं करवाम ते ( भाग० ९) इत्यादौ स्वागतशब्दस्यार्थः । ४ देवतापूजकास्तु षोडशोपचारमध्ये द्वितीयोपचारः। यथा आसनं स्वागतं पाद्यम् इत्यादौ स्वागतशब्दस्यार्थः इत्याहुः । स्वातन्त्र्यम्-स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता। कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षता ( सर्व० सं० पृ० १७७ शै० )। स्वादः-१ प्रीतिः। २ प्रीणनम् । ३ रसिकास्तु रसानुभवः। यथा रसास्वादेन तरला ये माद्यन्ति विपश्चितः ( प्रतापरु० ) इत्यादी स्वाद शब्दस्यार्थः इत्याहुः । ४ लेहनम् इति काव्यज्ञा आहुः। स्वाध्यायः-१ अध्ययनम् ( अमरः २७४७ )। यथा स्वाध्यायो जप ' इत्युक्तो वेदाध्ययनकर्मणि (स्मृतिः ) इत्यादौ स्वाध्यायशब्दस्यार्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102